पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

उपोद्धातः। क्रोडीकृतनानातन्त्रार्थसन्दोहस्तनपद्धतिर्नामायं ग्रन्थः ईशानशिव- . गुरुदेवमिश्रप्रणीतत्वाद् ईशानशिवगुरुदेवपद्धतिरित्याख्यातः । अस्य सामान्यपादः मन्त्रपादः क्रियापादः योगपाद इति चत्वारः पादाः । एषु पूर्व द्विकं पूर्वार्धमिति व्यवहृतम् उत्तरं द्विकमुत्तरार्धमिति । इह नानादेवताका मन्त्राः सतन्त्रयन्त्राः, तेषां स्वरूपं, तज्जपहोमादिविधानं, तत्साधनप्रकारः, साधितानां तेषां विषग्रहपीडारोगनिवारणेषु उच्चाटनस्तम्भनवशीकरणादिषु च कर्मसु विनियोजनं, मन्त्रैः सहौषधानां प्रयोगः, औषधसाधनप्रकारः, ओषधिगुणः, रसतन्त्रं, शकुनिरुतादिनिमित्तविज्ञानं, मायेन्द्रजालादिकौतुकं, देवालयविमानादिविधिः, देवप्रतिष्ठा, देवपूजानित्योत्सवादिविधानम् , अष्टाङ्गयोगलक्षणमित्येतावद् वस्तुजातं ग्रन्थान्तरानपेक्षया सुज्ञानं यथा स्यात् तथा सरसललितपदगुम्फैरुपाष्टादशसहस्रैः श्लोकबन्धर्महता विस्तरेण प्रतिपाद्यते । अस्य ग्रन्थस्य कवयिता तत्रभवान् ईशानशिवगुरुदेवमिश्रः प्राप्तमन्त्रसिद्धिः कश्चिन्महात्मेति ग्रन्थगुणगौरवादनुमीयते । मिश्रव्यपदेशाच्चायं मैथिलो मिथिलासंसृष्टदेशोद्भवो वा भवेत् । भोजराजाच्चैषोऽर्वाचीनः, यतस्तमसकृत् संस्मृतवान् । भोजराजस्य जीवितसमयस्तु, तदीयस्य तत्त्वप्रकाशस्योपोद्धातेऽस्माभिर्निर्दिष्टः।। ग्रन्थोऽयमतिविपुलत्वात् त्रिभिः सम्पुटैः प्रकाशनीय इति बुद्ध्या प्रथमः सम्पुटः सामान्यपादरूपः सम्प्रति प्रकाश्यते, यस्मिन्नर्थाः सर्वपादसाधारणा व्युत्पाद्यन्ते । एतत्संशोधनाधारभूता आदर्शग्रन्थास्तु - १. राजकीय ग्रन्थशालीयः चतर्दशपटलादिर्मन्त्रपादान्तः क. संज्ञः