पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सामान्यपाद ४ . ईशानशिवगुरुदेवपद्धतौ

मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ॥ 

सान्तं सर्वगतं शून्यं मात्राद्वादशभिः स्थितम् । ह्रस्वा ब्रह्म समाख्याता दीर्घा ह्यङ्गानि षण्मुख! ॥” इति ।

रत्नत्रयेऽपि -

"स तु शब्दश्चतुर्धा वाग्वैखर्यादिविभेदतः ।

जायते बिन्दुसंक्षोभादनन्तस्यार्थसिद्धये ॥” इति ।
शक्तिर्नादो महामाया व्योमेति च चतुर्विधम् ॥ ३२ ॥
बिन्दोरेवास्य तु पुनश्चतस्रो वृत्तयः स्मृताः ।
वैखरी मध्यमा चैव पश्यन्ती चापि सूक्ष्मया ।। ३३ ।।
व्युत्क्रमेण भवन्त्येताः कुण्डलिन्यादितः क्रमात् ।
सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्मात्रात्यणीयसी ॥ ३४ ॥
अश्रोत्रविषया तस्मादुद्गच्छन्त्यूर्ध्वगामिनी ।
स्वयंप्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् ॥ ३५ ॥
सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी । 

अन्तःसञ्जल्पमात्रा स्यादविभक्तोर्ध्वगामिनी ॥ ३६ ॥

सैवोरःकण्ठतालुस्था शिरोघ्राणद्विजोपगा । 

जिह्वामूलोष्ठनिष्टयूता कृतवर्णपरिग्रहा ॥ ३७ ॥

शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ।
हकारः सविकारोऽथ रेफेण समयुज्यत ॥ ३८ ॥ 

ईकारमभजत् तस्माद् बिन्दुनादविभूषितः ।

शक्तिबीजं हि तद्योगात् प्रपञ्चोत्पत्तिकारणम् ॥ ३९ ॥
हरत्वाच्च हरित्वाच्च पुंप्रकृत्योस्तु युक्तयोः ।
श्लिष्टोचारितयोः शाब्दं रूपं तद्बीजमीरितम् ॥ ४० ॥
हकारस्तु भवेत् प्राणो रेफो वह्निरुदाहृतः ।
ईकारस्तु भवेन्माया बिन्दुरीश्वर उच्यते ॥ ४१ ॥