एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
सङ्केताधिकारः] पूर्वार्धे प्रथमः पटलः।
पृष्ठं बकारो नाभिस्तु भकारो हृन्मकारतः । त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि यादयः ॥ ६४ ॥
धातवः सप्त वर्णाः स्युर्हकारः प्राण इष्यते ।
स्फूर्तिः क्षकारः सक्रोधो विश्वलोकमयी तनुः ॥ ६५ ।। भूराद्याः सप्त ये लोकाः पातालानि च सप्त वै । ब्रह्मादिस्तम्बपर्यन्तं मातृकायां व्यवस्थितम् ॥ ६६ ॥
सूर्याद्यास्तु ग्रहाः सप्त वर्गेभ्यः पृथगुद्गताः । अवर्गादुद्गतः सूर्यः कवर्गादपि भूसुतः ॥ ६७ ॥
चवर्गाद् भार्गवो ज्ञस्तु टवर्गाद् ता(लि ? दि)काद् गुरुः ।
पवर्गाच्च शनिश्चन्द्रो यवर्गाभवद् विभुः ॥ ६८ ॥ नक्षत्राण्याश्विनादीनि मेषाद्या राशयस्तथा ।
मातृकाक्षरसम्भेदात् कथ्यन्ते परतोऽत्र वै ॥ ६९ ॥ पञ्चाशदक्षरेभ्यस्तु पञ्चाशद् रुद्रमूर्तयः । समुद्गतास्तथा रुद्रशक्तयस्तत्प्रसंख्यया ॥ ७० ॥
विष्णुमूर्तिविशेषाश्च तावत्यो विष्णुशक्तयः । ओषध्यश्चापि पञ्चाशदष्टत्रिंशत् कलास्तथा ।। ७१ ॥
तारात् पञ्चप्रभेदात् तु पञ्चाशदभवन् कलाः। एवं हि मातृकोत्पत्तिरागमोक्ता प्रदर्शिता ।। ७२ ॥ प्रपञ्चसारकथिता यथावदिह सङ्ग्रहात् । अत्रोद्धियन्ते बीजानि बीजमन्त्राः समन्त्रकाः ॥ ७३ ।। उद्धारव्यत्ययादि स्यान्मालामन्त्रेषुः कल्पना । ततः परं यथापाठं विज्ञेया निपुणैः स्फुटम् ॥ ७४ ॥ हुंफट् वषट् नमो वौषडङ्गानि परिवारकाः । यथावदत्र लिख्यन्ते भगवच्छब्दसंयुताः ॥ ७५॥ युक्ताक्षराणि च स्पष्टं स्वाहाकारे च ठद्वयम् । दण्डार्धेन्दुर्भवेद् बिन्दुः सर्गो बिन्दुद्वये मतः ॥ ७६ ॥
'तम्' ग. पाठः: २. 'द्वेन्दू भवे' ख. पाठः,