पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ मन्त्रास्तु मनवः ख्याताः ककारो ब्रह्मसंज्ञितः । विषकालौ मकारः स्याद् धातवो यादयो मताः ॥ ७७ ॥ त एव मरुदग्नीलाम्भांसि वान्ता भवन्ति हि । खः प्राणभुवनेशाख्यो हकारः शिवसंज्ञितः ॥ ७८ ॥ कचवर्गौ टतौ तद्वद् व्यत्यस्तौ हि परस्परम् । पफबाश्च भमक्षाश्च व्यत्ययं ते त्रयस्त्रयः ॥ ७९ ॥ यशवर्गौ मिथस्तद्वद वेद्यौ व्यत्यस्तवर्णकौ । स्वरेषु व्यत्ययो नेष्टस्तद्वद् युक्ताक्षरेष्वपि ॥ ८० ॥ श्रीकण्ठाद्याश्च ये रुद्रा न्यासस्थानानि वा लिपेः । तत्तदक्षरविज्ञप्त्यै सङ्केताय भवन्ति हि ॥ ८१ ॥ संख्यास्तृतगणो देवा भूतानि भुवनानि च । यथासङ्ख्यं तथा विद्यात् स्वराः सप्त दिशो दश || ८२ ॥ बाणास्तु पञ्च वै सप्त समुद्रा मुनयस्तथा । वेदाश्चत्वार एव स्युस्त्रयो रामास्त्रयोऽग्नयः ॥ ८३ ॥ [सामान्यपाद: नन्दास्तु नव चत्वारो युगा वेद्या रसाश्च षट् । उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिता ॥ ८४ ॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । तृष्टुप् च जगती तद्वत् ततोऽतिजगती मता ॥ ८५ ।। शकरी चातिशकर्या ह्यष्टिरत्यष्टिरेव च । धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ ८६ ॥ विकृतिः संकृतिश्चैव प्रोक्ताभिकृतिरुत्कृतिः । एतासां छन्दसां संख्या क्वाचिदत्र विधीयते ॥ ८७ ॥ तत्त्वसंख्या भवेद् यत्र ग्राह्यं षट्त्रिंशदेव हि । तथा षट्त्रिंशदेव स्युः शैवे तत्त्वानि संख्यया || ८८ ॥ 1. 'ह्त्यतुगुणो' ख. पाठः,