पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ ईशानशिवगुरुदेवपद्धतौ सिन्दूरारुणसुन्दराङ्गरुचिरा रक्ताम्बरालेपना मन्दारावृतकुन्तला स्मितमुखी गण्डोल्लसत्कुण्डला | ध्येया स्याद् दधती करैः सरसिजं पाशाङ्कुशे पुस्तकं बिम्बोष्ठी मणिभूषणा भगवती संक्षोभणी भूतये || ८३ ॥ क्षोभणीन्यासः । पाशश्रीशक्तिमदनैर्लिप्यर्ण मदना रैमा ॥ ८४ ॥ लक्ष्म्यङ्कुशकलाह्रद्भिर्युक्तो न्यासंस्तु मालिनी | अनन्तो बिन्दुमान् पाशः श्रीबिन्द्वन्ताः स्वयं मनुः ॥ ८५ ॥ ब्रह्मा समांसवामाक्षदण्डो बीजं तु मान्मथम् | शक्तिः ख्याता तु कः साग्निदन्तबिन्दुस्तथाङ्कुशम् ॥ ८६ ॥ कलास्त्वक्षरजा ग्राह्याः पञ्चाशत् प्रणवोदिताः । वीप्सितानि स्वबीजानि सर्गी संवर्तकश्च षट् ॥ ८७ ॥ अङ्गान्यमूनि मालिन्याश्छन्दश्वोष्णिगृषिर्गुहः । देवतास्य जगन्माता देवी त्रिपुरभैरवी ॥ ८८ ॥ न्यासश्चानेन होमश्च मधुरैः सर्वसिद्धिदः । जपध्यानादिना सद्यः सर्वानाकर्षयेदपि ॥ ८९ ॥ बन्धुकारुणविग्रहां त्रिनयनां रक्ताम्बरालेपनां चञ्चत्काञ्चनकुण्डलां सवरदां पाशाङ्कुशे बिभ्रतीम् । नीहारामलहारकुङ्कुमरसैराताम्रकम्रस्तनीं ध्यायेत् तां तु कपर्दचन्द्रशकलां सव्याभयां मालिनीम् ॥ ९० ॥ मालिनीन्यासः | पाशाङ्कुशाभ्यां पुटितैर्लिप्यर्णैः कर्पणी भवेत् । न्यासस्तु कादिषङ्वर्गैः पाशाङ्कुशपुटैर्यथा ॥ ९१ ।। षडङ्गानि भवन्त्यस्यच्छन्दोऽनुष्टुप् प्रजापतिः । ऋषिर्वाग्वादिनी दैवं न्यासाद्यैः सर्वसिद्धिदः ॥ ९२ ॥ १. 'रांसरु' ग. पाठः. २. 'पुमान ॥', ३. 'वैं', ४. 'न्यासादि' ग. पाठ:● [सामान्यपाद: