१४ ईशानशिवगुरुदेवपद्धतौ सामान्यपादः उभयमपि च विद्याद् यत्र निश्वासवायुः प्रसरति समकाये स्वस्थदेहेन्द्रियस्य | वदतु च परिपृष्टः कार्यसिद्धिं च हानिं स्वरमुदितमवेक्ष्य स्वस्य वान्यस्य युक्त्या ॥ ७ ॥ कपिलबकुशरामाः कामनिम्ने निशाज्ञः पशुरणियमगावः किं वनं संख्यनाड्यः । क्रमपठितयुगार्णा राशयो द्वादश स्यु - र्दिनरजनिविभागस्तैस्तु षड्भिश्च षड्भिः ॥ ८ ॥ अजवृषमिथुनाख्याः कर्किहर्यक्षकन्याः समतुलमलिचापे नक्रकुम्भाह्वमत्स्याः । चरनचरयुगास्ते राशयस्त्रिक्रमाः स्युः सह खलु लिपिवर्णैः श्वासवेद्योदयाद्याः ॥ ९ ॥ उदयति चरराशिर्दक्षिणघ्राणसूर्ये मरुति हि शशिसंज्ञे वामके स्थास्नुराशिः । उभयपुटनिसृष्टं चोदयेद् युग्मराशिः सकलभुवनकालज्ञापकः श्वासचारः ॥ १० ॥ उभयमरुति जीवः सौम्यवायौ जले वा शशिदहनधरण्यो मारुतो धातुशंसी ।
उभयघरणिसूर्ये चाप्सु मूलं शशाङ्के पयसि च फलसिद्धिः सूर्यभूम्यप्सु न स्यात् ॥ ११ ॥ कुजमुभयगवह्नौ सूर्यबह्वौ मृतिः स्यात् सवितृवियति नष्टं स्यान्मृतं वाल्पमायुः । वदतु मरुति चन्द्रे दीर्घमायुस्तदद्भिः सुखमपि शशिभूमौ चाल्पसिद्धिस्तु तत्खे ॥ १२ ॥ उभयधरणिध्येया स्याद्रिष्टं साधयेद् दीर्घकाला- दुभयमरुति किञ्चित्कालपाके स सिद्ध्येत् । १. 'शौ दक्षि' ख. पाठः, २. 'ये यु' ग. पाठः.