एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
स्वरमूर्त्यधिकारः] पूर्वार्धे तृतीयः पटलः । उभयगगनवह्नयोर्नैव सिद्धिर्न हानि र्मरुदुभयजलस्थः क्षिप्रमल्पेष्टदः स्यात् ॥ १३ ॥ शशिजलघरणिस्थे शान्तिकं पौष्टिकं वा । शशिमरुदनवाभ्यां(?) वश्यमाकर्षणं च ।
दिनकरभुवि कुर्यात् स्तम्भनं त्वर्कतोये
रुजमिनमरुता खे भ्रामणोच्चाटनाभ्याम् ॥ १४ ॥
दिनकरवियति स्यान्मोहनं चार्कवह्नौ
द्रुततरमरिवगान् मारयेत् सादयेच्च ।
इति जपहुतविद्याः साधयन् वै यथावत् स्वरमुदितमपेक्ष्य त्वारभेताशु सिद्ध्यै ॥ १५ ॥
स्वरोदयाधिकारः। कचटतपसमाख्याः पञ्चवर्गास्तु धात्री___
मरुदनलखतोयैः संयुतास्तत्र वेद्याः ।
अनिलदहनपृथ्व्यो वारि चाप्यत्र याद्या स्त्रिगुणगगनवर्णाः शादयोऽन्त्यस्तु रागः ॥ १६ ॥
कनकरुगमलस्रग्वस्त्रगन्धोऽष्टबाहु.
स्त्रिशिखवरगदाधृक् कूर्मवाहोऽष्टनेत्रः । शशधरचतुरास्यो वृत्तपीठे कपर्दी कुवलयसमगन्धो मन्दराभो ह्यकार: ॥ १७ ॥
धवलरुचिरथाब्जे सूपविष्टा द्विवाहु
र्गजवरमधिरूढा साङ्कुशा पाशहस्ता ।
तुहिनविमलहारैर्भूषिता पष्टिदीर्घा
त्रिदशविततिराख्या योजनानां पुरन्ध्री ।। १८ ।।
कुलिशधृगतिपीतं कूर्मवाहं कुंबिम्बे
द्विभुजमलसगन्धं योजनद्वन्द्वदीर्घम् ।
स्मरतु विविधमायं विस्तृतं दैर्व्यसोऽर्धम्
रिपुदुरितगदघ्नं स्तम्भनं सुक्ष्मसंज्ञम् ॥ १९॥