पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्रत्यक्षरमूर्त्यधिकारः] पूर्वार्धे तृतीयः पटलः। त्रिशिखपरशुहस्तं द्वेषकृत्येषु विद्याद् दशशतपरिमाणं शर्मसंज्ञं तु वर्णम् ॥ ३८ ॥

जलधिसमनिनादः सद्गदो वज्रपाणि

र्भुजगभुजगनद्धो युग्मबाहुः सुतीव्रः ।

प्रथमरिपुरुजानां ध्वंसनः क्रौञ्चवाहः ___ 

कपिलरुचिरुदारो वः स सोमेश्वरोऽव्यात् ।। ३९ ॥

अमलशशिनिकाशः शङ्खगोक्षीरगौरो

विमलमणिविचित्रैर्भूषितो हारजालैः । धरणिपवनपद्मे पद्महस्तो गजोऽव्यात् सकलविषहरो वो लाङ्गली लक्षमानः ॥ ४० ॥

तुरगकुवलयस्थः पक्करम्भाद्युतिर्वः

कनकमणिविचित्रस्तुर्यवक्रोऽष्टबाहुः ।

दशशतपरिमाणः पद्मपाशाङ्कुशाब्जा.

न्यभयवरदशूलैरादधद् दारुकोऽव्यात् ॥ ४१ ॥ अनलपुरगमेषे वह्निदेवः स वोऽव्यात् कुलिशवरभुसृण्ठीभिण्डिपालेषुपाशान् । परशुमपि रथाङ्गं कार्मुकं चादधानो दशपरिणतिरुच्चैरर्धनारीश्वरार्णः ॥ ४२ ॥ त्रिशिखपरशुहस्तं व्याघ्रवाहं सुधूम्रं त्रिमुखमहितरोगान् ध्वंसयन्तं कुबिम्बे । अरिकुलिशभुसृण्ठीपाशदण्डध्वजाढ्यं स्मरतु दशशतोच्चं चाप्युमाकान्तवर्णम् ॥ ४३ ॥

द्विपवरमधिरूढः शहटङ्काब्जपाशान्

दधदलसमगन्धो वः सहस्रप्रमाणः ।

शतमखवरुणेशो वश्यदो भूषिताङ्गः

कटकमकुटनिष्कराषढीपाटलोऽव्यात् ।। ४४ ॥ . २. 'रो', २. 'पा' ख. पाठः. ३. 'रो' ग. पाठः.