पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रत्यक्षररूपाधिकारः ] पूर्वार्धे तृतीयः पटलः । ईशाद्यं तु चतुश्चतुष्पदलिपौ स्वाख्यादिवर्णे पदे ये सिद्धाः खलु ते द्वितीयपदगा: साध्याः सुसिद्धाः परे । वर्णा येऽप्यरयश्चतुर्थपदगास्ते मृत्युदुःखप्रदाः शिष्टास्तें त्वचिराच्चिराजपहुतैः सिध्यन्ति पाठादपि ॥ ७७ ॥ प्राक् साध्याख्यां साधकाख्यां च पश्चाद् धृत्वाष्टाभिस्तत्र शेषादृणं स्यात् । स्वाख्यावर्णैर्वर्धितैः साध्यवर्णैर्ह्रत्वाष्टाभिस्तद्विलोमादृणं वा ।। ७८ ॥ साघकाह्वयवर्णानां सह मन्त्राक्षरैस्तु यत् । सिद्धाद्यैर्गणनां कृत्वा ज्ञेयो मन्त्रांशकस्त्वयम् ॥ ७९ ॥ पश्चिमात् प्राग्गतं लेख्यं पङ्कयोर्दक्षिणवामयोः । मन्त्रनाम्नोर्यथा वर्णान् पृथक् तव्द्यञ्जनस्वरैः ॥ ८० ॥ नाम्नोर्मन्त्रस्य वा वर्णा विषमाः स्युर्यदा तदा । तत्तदक्षरमालेख्य समं यावत् प्रपूरयेत् ॥ ८१ ॥ ततः सिद्धादिभिर्हृत्वा ज्ञेयं प्राग्वत् फलादिकम् । पङ्क्तौ लिखेत् साधकसाध्यनाम्नो वर्गान् स्वरव्यञ्जनभेदभिन्नान् । हृत्वा त्रिभिः शात्रवमित्रमध्यान् विद्याच्च शत्रुर्यदि तं प्रजह्यात् ॥ ८२ ॥ संहितोच्चारणात् प्राप्तं शोधनेष्वक्षरं त्यजेत् || ८३ || अधिकं चाप्यनुस्वारं जिह्वामूलं विसर्गकम् । त्यक्त्वैवं शोधयेन्मन्त्रान् यथोक्तं तत्त्वसागरे ॥ ८४ ॥ यथैवाद्याक्षरे शुद्धिं तथा सर्वाङ्गशोधनम् । कृत्वा कियन्तः सिद्धाद्या मन्त्रेऽस्मिन्निति चाङ्कयेत् || ८५ ॥ सिद्धार्णाश्चतुरो यस्मिन् मन्त्रोऽसौ सिद्धनामभाक् । सिद्धहीनस्तु साध्याख्यः सुसिद्धो रिपुवर्जितः ।। ८६ ।। सुसिद्धहीनः शत्रुः स्याच्चतुर्धैवं प्रकल्पयेत् । सुसिद्धमन्त्रः स्यादन्ते सिद्धये स हि कामधुक् ॥ ८७ ॥ अशत्रुरादिसिद्धो यः सुसिद्धार्णादिको मनुः । अरिवर्णविहीनश्च सर्वकामप्रदो ह्यसौ ॥ ८८ ॥