________________
मन्त्रलिङ्गाद्यधिकारः] पूर्वार्धे चतुर्थः पटलः ।
स्यादाग्नेयैः क्रूरकार्यप्रसिद्धिः सौम्यैः सौम्यं कर्म कुर्याद् यथावत् ।
सौम्याग्नेयास्तूभयैर्लक्षणैः स्युः कुर्यात् सर्वं कर्म तैः क्रूरसौम्यम् ॥ ४ ॥ स्वापोद्बोधौ तद्वदभ्यासकालं विद्यादेषां त्वासनं चारभेदात् ।।
सौम्यानां स्यात् सौम्यतोऽभ्यासकालस्त्वाग्नेयानां सौरतोऽभ्यास उक्तः ॥ ५॥
सौम्यः स्वापः सूर्यचारेऽथ सौम्ये त्वामेयानां स्वाप उक्तोऽथ बोधः ।
द्विष्ठश्चारस्तुल्य एवोभयोः स्यात् सुप्तोऽभ्यासे बुद्धमात्रोऽपि नेष्टः ॥ ६ ॥
जापं कुर्यादुक्तकाले मनूनामुद्वन्धान् वा जप्यहोमक्रियादौ । आरभ्यैतान् पूर्वमभ्यासकाले मध्ये स्वापः कर्मणां नैव दुष्येत ॥ ७ ॥ मन्त्रलिङ्गाधिकारः । षडङ्गो यो मन्त्रः स भवति सनेत्रो ह्यनयनो ___ मनुः पञ्चाङ्गः स्यात् खलु यदुभयोरङ्गमनवः । पृथक् ते स्युर्नों चेत् क्वचिदपि च मूले नवदश स्वरैः कुर्याद् दीर्घैरनृणयुगलैरङ्गरचनाम् ॥ ८ ॥
स्वैरर्चिभिर्यद्वदेवाप्रधृष्यः सूर्यो वाग्निस्तेजसाग्र्यः समर्थः ।
तद्वत् साङ्गैर्मन्त्रमूर्तिस्तदात्मा तद्युक्ताङ्गैः स्यात् समर्थोऽप्रधृष्यः ॥९॥
हृद् बुद्धिगम्यं हृदयस्थ आत्मा स्याच्चेतनावान् हृदयेन मन्त्रः । यद् बुद्धिपूर्वं क्रियते नमोऽस्मै मुख्यं हृदङ्गं तत एव वेद्यम् ॥ १० ॥ शिरस्तु मूर्तस्य मनोः प्रधानमङ्गं हि सर्वेशगुणार्थतुङ्गम् । स्वतो हि तस्माद् विषयापहारे स्वाहेति युक्तं शिरसोऽङ्गमुक्तम् ॥ ११ ॥
शिखा तु कर्माङ्गतया मनूनां यतो वषड्व्युष्टिकरं तदङ्गम् ।
अधृष्यतेजाः शिखया यदग्निर्वषट्शिखायां विनियुज्यतेऽतः ॥ १२ ॥ कचग्रहार्थग्रहणात् तु गातोः सङ्गृह्य देहं कवचं मनूनाम् । तेजस्तु हुं सर्वमरिष्टजातं निवारयेत् तत्कवचाय युक्तम् ॥ १३ ॥
2. 'ल', .. 'म्याः' ग. पाठः. ३. ', 'ति' ख. पाठः.