पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

४० ईशानशिवगुरुदेवपद्धतौ

देवताः सप्त शक्राजमित्रार्यमधराश्रियः । 

यमश्च करणानां स्युः पूज्यास्तत्करणेषु ते ॥ ३७ ।।

एवं हि मातृकावर्णविवृतिः संप्रकीर्तिता । 

गौतमीये यथा प्रोक्तं मन्त्रव्याकरणेषु च ॥ ३८ ॥ प्रपञ्चसारे च यथा यथोदग्गार्यभाषितम् । मातृकावर्णविततिर्विश्वमेतदिति स्फुटम् ॥ ३९॥

विन्दोरग्रे रवोऽभूदथ रवजनिताः षोडशादौ स्वराः स्युः ___
काद्यर्णाः पञ्च वर्गास्त्वथ खलु यमुखा धातुभिः पञ्चभूतैः । 

तन्मात्राभिस्तथाक्षैः प्रकृतिरथ गुणैर्विश्वरूपा नसंज्ञा शक्तिर्वागीश्वरीयं ननु जगदखिलं यत् प्रपञ्चाभिधेयम् ॥ ४० ॥

इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे

मन्त्रलिङ्गादिकं नाम चतुर्थः पटलः। अथ पञ्चमः पटलः।

अथ मन्त्रजपार्चनाहुताद्यैर्विविधानामपि कर्मणां तु युक्तया । 

पृथगत्र हिताय साधकानां कथयिष्ये निखिलेन साधनाद्यम् ॥ १॥

कथिताः खलु तत्त्वसागरादौ विधयः पल्लवयोगरोधनाद्याः । 

हरितश्च सदेशकालयुक्त्या विविधद्रव्यदिनासनादिकुण्डैः ॥ २ ॥

अपि पल्लवयोगरोधनानि ग्रथनं संपुटकं विदर्भणं च ।
इति कर्मसु योजनं हि षोढा मनुवर्णैः सह साधकार्णयुक्त्या ॥३॥ 

मनुरन्तनिविष्टसाधकाख्यः कथितः पल्लवमादितस्तु योगः ।

उभयत्र मनोस्तु नामरौधौ प्रथनेऽर्णान्तरितं द्वयोः क्रमेण ॥ ४ ॥
उभयत्र तु साधकस्य मन्त्रो विनिविष्टो यदि संपुटं तदाहुः ।
मनुवर्णयुगेन साधकार्णं यदि चैकं क्रमशो विदर्भणं स्यात् ॥ ५ ॥
1. 'म', २. 'च' ग. पाठ..