एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
‘दशाधिकारः] - पूर्वार्धे पञ्चमः पटलः । ग्रहभूतपिशाचनिग्रहादौ विषसंहारविनाशमारणेषु ।
अरिचाटनसादनेषु तेषामपि विद्वेषविधौ च पल्लवं स्यात् ॥ ६ ॥
परमोहनकर्मणां तु रोधः परसंस्तम्भनकेषु योगमाहुः । जनशील केषु संपुटं स्याद् वशकृच्छान्तिकपुष्टिदो विदर्भः ॥ ७ ॥ पल्लवाद्यधिकारः वृषशान्तिकपौष्टिकेषु पूर्वा त्वनलाशा खलु चाटने ज्वरे च ।
ननु मारणमोहयोर्यमाशा कथिता द्वेषणकेषु राक्षसाशा ॥ ८ !! जलदिग् जलवृष्टिदाहशान्त्यां भ्रमणस्तम्भनयोश्च मारुताशा ! शिववाग्यजनेषु वश्यकृत्ये धनदाशा कथितेशदिग् विमुक्त्यै ॥९॥ शिवदक्षिणमूर्तिपश्चिमाशा मुखशर्वालयगोष्ठपुण्यनद्यः ।
परदेवहुताशविप्रगेहैर्वनशैलाः खलु शान्तिकेषु देशाः ॥ १० ॥
वटपिप्पलबिल्वमूलदेशाः प्रथमोक्ताः शुभपौष्टिकेषु शस्ताः । अपि कर्षणवश्यकर्मणोस्ते खलु शस्ताः स्वगृहादिकं च रम्यम् ॥ ११ ॥
परिशोध्य भुवं तु शल्यहीनां गतलोष्टात्ममषीतुषादिदोषाम् ।
सिकतासममृत्स्नयाभिपूर्णां मुकुराभामुदगिन्द्रदिक्प्लवान्ताम् ॥ १२ ॥ अभिपूजितवास्तुपाधिदैवों सुरभेः सूतकरोगवर्जितायाः । गगनात्तनवेन गोमयेनाप्युपलिप्याम्बरगालितैश्च तोयैः ॥ १३ ॥ प्रकृतानुगुणं तु तत्र कुर्यात् परिशुद्धष्टकदारुबल्बजाद्यैः । अपि यज्ञियसाधनैर्यथेष्टं मठशालादिकभिष्टदण्डमानम् ॥ १४ ॥
परमाणुरजः कचश्च लिक्षाः सहयूकाश्च यवाः क्रमाष्टसंख्याः । यवकोटरकोष्ठकं तु तिर्यक् खलु मानाङ्गुलमिष्यते स्म तन्त्रे ॥ १५ ॥
प्रवदन्ति वितस्तिका द्विषट्कैरिति मानाङ्गुलकैर्वितस्तियुग्मम् । कथयन्ति हि किष्कुसंज्ञहस्तं निपुणा हस्तचतुष्टयं च दण्डम् ॥ १६ ॥
. 'करणेषु' ग. पाठः. २. 'हि', ३. 'वाः' ख. पाठः,