पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आसनाधिकारः] पूर्वार्धे पञ्चगः पटलः ।

द्विषतोऽष्टमराशिनैधनर्क्षेष्वथ वैनाशिकमार्गसंख्यमानि ।
कुजमन्ददिनोदयादियोगैरभिचर्यासु भवन्ति सिद्भिदानि ॥ ५ ॥ 

कुजशुक्रबुधेन्दुसूर्यसौम्या भृगुजारौ गुरुमन्दसौरिजीवाः ।

क्रमशोऽश्वयुजादिभाङ्घ्रिपास्ते खलु मेषादिकराशिपाश्च ते स्युः ।। ५५ ॥
कुजभास्करजीवमन्दशुक्रा बुधशुक्रार्कजसौम्यचन्द्रभौमाः । 

घिषणोऽप्यधिपास्त्वजादि सिंहाद्यपि चापादिषु राशिषु त्रिधैयम् ॥ ५६ ।।

गुरुमन्दादिनेऽथ जीवमन्दांशकनक्षत्रतदंशके सरिक्ते । 

स्थविराख्यमुदाहरन्ति शस्तं रिपुरोगार्णविनाशनप्रयोगे ।। ५७ ।। दिवसं प्रविभज्य चाष्टघान्त्यप्रथमौ मोक्ष्यति तद्दिनप्रहांशौ।

प्रहरार्धभुजौ ग्रहाः षडन्ये क्रमशोंऽशो गुलिकोऽत्र यः शनेः स्यात् ॥५८ ॥ जननर्क्षसंकतोंऽशकादशीतेरधिको यस्य तु योऽष्टमोंऽश उक्तः । .
स विनाशकसंज्ञको विनाशी निजभात् सप्तमभं तु नैधनाख्यम् ॥ ५९॥ 

निजभाद्रवितोदधिग्रसंख्याः शुभताराः शुभकर्मणां प्रशस्ताः ।

शुभकर्म करोतु रागधामा सधनैकादशसंख्यया स्वराशेः ॥ ६ ॥

दिनाधिकारः। ।

न च यानगतो न वाहनस्थो न च यन्त्रस्थलगो न वाशुचिः सन् ।
विषयेष्वभिषक्तमानसो वा जपहोमादिकृतं फलं लभेत ॥ ६१ ॥
अतिनीचमपीह नोच्छ्रितं वा न च शुद्धेतरचर्मकम्बलाढ्य म् । 

अशुभाङ्घ्रिपजं च भिन्नदग्धं नृजलोच्छिष्टमलाक्तमासनं स्यात् ॥ ६२ ॥

कुशदर्भकृताः शुभाश्च वृस्यः फलकाः पुण्यतरूद्भवा विशालाः ।
सकषायतरक्षुचर्म चैणं त्वपि शस्तानि सुलोहदन्तजानि ॥ १३ ॥ 

सितशुद्धीवधीतवाससा + समवास्तीर्णविशङ्कटासनानि । प्रभवन्ति हि सौम्यकर्मसिध्ध्यै विषवृक्षादिकृतान्यसौम्यकृत्ये ॥ ६४ ॥

उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं विधाय ।
ऋजुमध्यगलेक्षणाग्रकायो भवति स्वस्तिकमासनं निविष्टम् ।। ६५॥

१. 'बा' ग. पाठः.