पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

४६ ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः

चरणाग्रयुगं त्वथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे ।
उपविश्य पुरेव पद्मसंज्ञं कथितं तद्विपरीततस्तु भद्रम् ॥ १६ ॥
अधिरोप्य तु दक्षिणाङ्घ्रिमूरावथ सव्ये चरणे तु दक्षिणोरुम् ।
अधिरोप्य पुरेव सूपविष्टो यदि योगासनमिष्टदं तदाहुः ॥ ६७ ।।
वृषणे तु निगृह्य वामजङ्घापदगुल्फे त्वधिरूढसस्फिगूरुः ।
उपरिस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः ॥ ६८ ॥
विनिवेशितजिह्मदक्षिणाघ्रिः फलकादावुपविश्य वामपादम् । 

अवनौ विनिधाय चोर्ध्वजङ्घं ननु तत् स्वस्तिकमर्धपूर्वमाहुः ॥१९॥ उपविश्य तथासने तु पादौ भुवि संस्थाप्य मिथो निबद्धजङ्घौ ।

समतोरणजानुरूढहस्तो यदि वीरासनयोगपट्टनद्धः ॥ ७० ॥ 

स्थित एवं पदद्वयेन भूमौ फलकाद्यं च विना स चेन्निविष्टः ।

समतोरणवत् स्थितोरुजङ्घो भवतीहोत्पुटिकं च कुक्कुटं तत् ॥ १॥
मरुतां विजये तथेन्द्रियाणां भवमुक्तौ च सुधारणे समाधौ।
कमलासनमिष्टमत्र भद्रं हितमुक्तं खलु नित्यपौष्टिकादौ ॥ ७२ ॥
कथितं खलु शान्तिकेषु कर्मस्वखिलं स्वस्तिकमेव चाभिषेके ।
अपि शान्तिकजप्यहोमपूजास्वथवा स्वस्तिकमर्घपूर्वमिष्टम् ॥ ७३ ॥ 

सकलीकरणे निजैक्यदेवेष्वभिजप्येषु समाधिहंसयोगे ।

परमार्थनिरूपणेषु चेष्टं खलु योगासनमग्रतो गुरुश्चेत् ॥ ७ ॥
पृतनाविजये च तन्निरोधेष्वपि संस्तम्भनभूतनिग्रहादौ ।
अपि संवननेषु कर्षणे वा ननु वीरासनमुक्तमाशुसिद्धयै ॥ ७५ ॥ 

कथितं खलु कुक्कुटं रिपूणां रूचिविद्वेषणचाटनभ्रमेषु ।

अथ मारणकेषु पार्ष्णिसंज्ञं विदितं वासनमर्घकुक्कुटं तत् ।। ७६ ॥
विजये मरुतां स्वदोषशान्त्यै पृतनास्तम्भविधौ च गोमुखं वा ।
प्रमदाजनकर्षणेषु चाब्जं विजितं यद् विदित गुरूपदिष्टम् ॥ ७७ ॥

1. 'कु' ग. पाठः. २. “अरुणां वि' ख. पाठ:. ३. 'स' ग. पारः ४. 'रजिवि म. पाठः. ५. 'य' ग. पाठ:. . 'नरक' ब. पाठः,