भद्रकाधिकारः] पूर्वार्धे पष्टः पटलः । - कुण्डं स्यादष्टकोणं सुरुचिरमथवाप्यर्धदिक्सूत्रकोणा- च्छिष्टाप्यैन्द्राच्छरांशात् कृतशफरयुगाज्जातमीनाष्टकैर्वा ॥ ३२ ॥ क्षेत्रे त्रिपञ्चाङ्गुलमात्रवृत्तं त्रिभिस्त्रिभिश्चाङ्गुलकैर्विभज्य | रेखांशकान् पञ्चदशात्र कुर्यात् कोणान्तराणि त्रिभिरंशकैः स्युः ॥ ३३ ॥ स्थित्वा तु विन्दावथ पञ्चधास्मिन् सूत्राणि सूर्याङ्गुलमायतानि । दत्त्वाश्रिमध्येन समं विभक्तैः सूत्रैर्हि कोणद्वयसन्धयः स्युः ॥ ३४ ॥ बिन्दोस्तु कोणान्तगसूत्रमानात् संभ्राम्य तत्क्षेत्रचतुर्थभागात् । बिन्दुस्थसूत्रभ्रमणं विधाय स्युः सन्धयः पञ्च तथात्र सूत्रैः ॥ ३५॥ पञ्चकोणकुण्डाधिकारः । चतुरश्रं तु संसाध्य व्द्यष्टधा विभजेत् पुनः । षट्पञ्चाशच्च कोष्ठानां द्विशतं चात्र वै भवेत् || ३६ |॥ षण्णां षड्भिस्तु कोठैर्लिखतु सरसिजं मध्यदेशेऽस्य बाह्ये पङ्ख्या पीठं च पीठाद् बहिरपि परितः पङ्क्तियुग्मेन वीथीम् । ताद्बाह्ये पङ्कियुग्मे दिशि विदिशि तथा द्वारकण्ठोषकण्ठाद् गण्डांश्चैवोपगण्डान् रजनिचरमरुद्वाहिशर्वेषु कोणान् ॥ ३७ ॥ “कण्ठोपकण्ठात् कपोलोपकपोलात् शोभोपशोभा” इति केचिदाहुः । पद्मक्षेत्रस्थदिक्सूत्रे संस्थाप्यान्यद् विसृज्य तु । बहिर्द्वादशकं भागं त्यक्त्वान्यत् परिवर्तयेत् ॥ ३८ ॥ क्षेत्रं चतुर्धा विभजेत् तु वृत्तं सूत्रं परिभ्राम्य समं क्रमेण । तत्कर्णिकाकेसरपत्रसन्धिच्छदावसानानि भवन्ति तानि ॥ ३९ ॥ पूर्व द्वादशकांशं यत् त्यक्तं तद् भ्रमयेद् बहिः । पञ्चमं तद् भवेत् क्षेत्रं व्योमाख्यं तद् दलाग्रकम् ॥ ४० ॥ प्रसार्य कोणसूत्रे द्वे कोणादङ्मध्यमेन तु । चत्वारि सूत्राण्यास्फाल्य सूत्रषोडशकं भवेत् ॥ ४१ ॥ १. 'त्र' ग. पाठ:. 'त्रि दिशि च त'. २: 'त्रि' ख. पाठः ३. 'त्रे', ४. 'थम्' ग. पाठ.. ६. 'वहिदू' ख. पाडः. ७. 'च्छा' ग 7ठ:
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८८
एतत् पृष्ठम् परिष्कृतम् अस्ति