पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आसनावाहनाधिकारः] पूर्वार्धे अष्टमः पटलः । सामान्येयं सर्वगुणानामपि हेतुः कर्मद्रव्यस्वात्मसु शुद्धिर्मनसो या।

शुद्धिः सा साद्यस्य तु रागाद्यविदुष्टा चेच्चत्वारोऽप्यस्य करस्थाः पुरुषार्थाः॥

इति श्रीमददीशानशिवगुरुदेवपद्धतौ तन्त्रसारे स्रुक्सुवादिलक्षणं नाम सप्तमः पटलः। अथाष्टमः पटलः ।

अथ मन्त्रात्मभूतानां देवतानां यथोचिता।
पूजा सिद्धिकरी ज्ञेया दृष्टादृष्टफलप्रदा ॥१॥ 

तया स्युर्देवतास्तुष्टाः पुरुषार्थफलप्रदाः । पूजा सा त्रिविधा ज्ञेया श्रेष्ठमध्याधमक्रमात् ॥ २ ॥

पूजोत्तमा भवति षोडशोपचारैर्या मध्यमा प्रभवतीह दशोपचारा ।
पञ्चोपचारविधिना त्वधमा सपर्येत्यासां यथाविभवमर्चनमाश्रयीत ।। ३ ।।

कल्पतन्त्रगुरुप्रोक्ता यस्य मन्त्रस्य यादृशी। पूजा श्रेष्ठादिभेदेन तयाराध्यैष साधयेत् ।। ४ ।।

आसनावाहनार्घ्यादि पाद्यमाचमनीयकम् ।

साङ्गोपाङ्गं तथा स्नानं वसनाभरणानि च ॥ ५॥

गन्धः पुष्पं तथा धूपो दीपश्चरुनिवेदनम् । 

अग्निकार्यं नमस्कारो जपपूजासमपर्णम् ॥ ६ ॥

इति षोडशधोद्दिष्टा ह्युपचाराः समासतः ।
अध्ये पाद्यं तथाचामः स्नानं गन्धश्च पुष्पकम् ॥ ७॥
धूपदीपनिवेधानि नमस्कारश्च ते दश ।

मध्यमायां तु पूजायामुपचाराः प्रकीर्तिताः ॥८॥ गन्धः पुष्पं धूपदीपो निवेद्यं पञ्चैवं स्युस्तूपचाराः कनिष्ठे । अप्येतेषां लक्षणानां प्रभेदाः संलिख्यन्ते साधकानां हिताय ॥९॥ शक्त्यादिस्वाङ्गशक्त्यन्तं पीठाब्जं वाब्जमेव वा । यत् तन्मन्त्रविधानोक्तमासनं तत् प्रचक्षते ॥ १० ॥

आधारो वेत्यासनं देवतायाः स्वासीनास्मिन् पूज्यते देवतेष्टा ।
धातोरासेत्यस्य चैवोपवेशः सिद्धं तस्मादासनं प्राक् प्रशस्तम् ॥११॥ 

. गि' . पाठः