पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः

व्योमाम्बुजादयो बिन्दोर्हृदयाद्वार्कमण्डलात् ।
यत् तत्त्वमानयीतास्मिन् तदावाहनसंज्ञितम् ॥ १२ ॥
स्वत एवाभिपूर्णस्य तत्त्वस्यहार्चनादिषु ।
सादरं संमुखीभावस्तदावाहनमिष्यते ॥ १३ ॥
पुष्पैरञ्जलिमापूर्य हृदयादिस्थितं विभुम् ।।
सौषुन्नमार्गेणादाय बिन्दोरभ्युदितं स्मरन् ॥ १५ ॥
तावदुचारयेन्मन्त्रं यावन्निष्कलगोचरम् ।
तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते ॥ १५ ॥ 

बिम्बे वा स्थण्डिले वापि न्यसेदावाहनं तु तत् ।

आवाहनाङ्गभूतानि स्थापनं सन्निधापनम् ॥ १६ ॥
संन्निरोधामृतीकाराववकुण्ठनमेव च ।
साकारस्येष्टदेवस्य पूजार्थं कल्पितासने ॥ १७ ॥
उपवेशनमुद्दिष्टं स्थापनं नाम भक्तितः ।
आकर्मकाण्डपर्यन्तं सान्निध्यं दैवतस्य तु ॥ १८ ॥
अविच्छेदेन पूजायां सन्निरोधः स कथ्यते । 

अविभिन्नस्वभावानां यदभिन्नं प्रयोजनम् ॥ १९ ॥ अङ्गानामङ्गिना सार्धममृतीकरणं हि तत् ।

आनन्दायतनं तत्त्वं सच्चिदानन्दविग्रहम् ॥ २० ॥ 

तदेतन्मूर्तगं ध्येयं यत् तत् स्यादवकुण्ठनम् ।

अवकुण्ठनवत् तेजो रुचिराङ्गप्रवर्धनम् ॥ २१ ॥ 

लावण्यामृतपूराढ्यं यत्तदुक्तं प्ररोचनम् ।

पूजां प्रयुज्यमानां तु गृहीत्वानुग्रहादिकम् ॥ २२ ॥
कर्तुं सामर्थ्यमस्यास्ति यत् तत् स्यात् संनिधापनम् ।

आसनावाहनाधिकारः । १. 'प्य' ख. पाठः.