पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

पाचमनमधुपर्काधिकारः] पूर्वार्धे अष्टमः पटलः । अर्ध्यं नामार्हणं प्रोक्तं तदर्हायागताय यत् ॥ २३ ॥ कल्पितं दीयते तत् तद्विधानादर्चनादिषु । तच्चास्य त्रिविधं ज्ञेयं शैवं शाक्तं च वैष्णवम् ॥ २४ ॥ शैवमध्ये षडङ्गं चाप्यष्टाङ्गं च द्विधा भवेत् । गन्धपुष्पाक्षतकुशा दूवार्ग्रं च तथोदकम् ॥ २५ ॥ भोजेन्द्रब्रह्मशम्भूक्तं षडंङ्गार्ध्यमुदाहृदम् । . कुशाक्षततिला दूर्वा गन्धः पुष्पं यवास्तथा ॥ २६ ॥ क्षीरं चाष्टाङ्गमर्ध्याम्भः शैवं स्याद् विजयोदितम् । गन्धपुष्पाक्षतयवाः कुशदूर्वाग्रसर्षपाः ॥ २७ ॥ आपश्चेत्यष्टभिर्द्रव्यैः शाक्तमर्ध्यमुदीरितम् । सिद्धार्थाक्षतदर्भामगन्धपुष्पयवाः फलम् ॥ २८ ॥ तिलाश्चेत्यष्टभिर्युक्तमम्भोऽर्घ्यं वैष्णवं स्मृतम् । हैरण्यं राजतं ताम्रमलाभे वाथ दारवम् ॥ २९ ॥ पात्रं त्रिकुडुबैः पूर्णमर्ध्ये शङ्खस्तु वा भवेत् । आपूर्यार्ध्य तु मूलाङ्गैरभिमन्त्र्यामृतीकृतम् ॥ ३० ॥ ध्यात्वा तु सकलोपाधिविग्रहं संमुखं विभुम् । परमामृतनिःष्यन्दधवलीकृतदिङ्मुखम् ॥ ३१ ॥ समुत्क्षिप्य विशेषार्घ्यभाजनं वामपाणिना । पश्चान्निवेदयेदर्ध्यं दक्षिणेन करेण तु ॥ ३२ ॥ अर्ध्यावधिः । पाद्यं तु सर्वसामान्यं दूर्वाश्यामाकपङ्कजैः । तुं लक्ष्म्याम्भसा समापूर्य पाद्यं दद्यात् तु पादयोः ॥ ३३ ॥ सजातीफलतकोललवङ्कं शीतलं जलम् । प्रपञ्चादिषु यत् प्रोक्तं सामान्याचमनीयकम् ॥ ३४ ॥