एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
पुष्पाधिकारः पूर्वार्धे अष्टमः पटलः । समूलाजमनोन्यासः पुष्पधूपसमर्पणम् ।
फलापूपादिनैवेद्यं गीतवाद्यादिमङ्गलम् ॥ ४६॥
पञ्चगव्यामृतस्नानं पुनर्लेपापनोदनम् ।
गन्धामलकहारिद्रकुङ्कुमोद्वर्तनानि च ॥ १७ ॥ मूलाङ्गवैदिकैर्मन्त्रैः सुगन्धाम्भोभिषेचनम् ।
यथोपपत्तिकलशैरभिषेकश्च संभवेत् ॥ १८ ॥ माङ्गल्यपिष्टदीपाद्यैर्नीराजनविधिस्तथा । विशुद्धवाससा बिम्बस्थिततोयापमार्जनम् ॥ १९ ॥
हेमपुष्पादिना शश्वदशून्यं मस्तकं यथा । इत्थं हि विंशत्यङ्गं तु स्नानं सामान्यमीरितम् ॥ ५० ॥ एतेषां यदलभ्यं स्यान्मनसा तत् प्रकल्पयेत् ।
स्नानाधिकारः। ततो वासांसि शुद्धानि सूक्ष्माण्यभिनवानि तु ॥ ५१ ॥
दुकूलपट्टकार्पासदेवानादीनि यानि ह ।
अन्यत्रानुपयुक्तानि विकेशान्यहतानि च ॥ ५२ ॥
भक्त्या यथोपपन्नानि शस्तान्यत्र प्रदापयेत् । भूषणानि च हैमानि नानारत्नोज्ज्वलानि तु ॥ ५३ ॥ पादाद्याकेशयोग्यानि यथाविभवसारतः ।
अलाभे मनसा वापि तं तु सम्यग् विभूषयेत् ।। ५४ ॥
दर्पणं निर्मलं चात्र स्थापयेत् पुरतः प्रभोः ।
वस्त्रभूषणविधिः।
गन्धश्च त्रिविधो ज्ञेयः शैवः शाक्तश्च वैष्णवः ॥ ५५ ॥ चन्दनं कुङ्कुमं कुष्ठ दलोशीरं तथागरु । कर्पूरं हिरिबेरं च शैवं गन्धं प्रचक्षते ॥ ५६ ॥
चन्दनागरुकर्पूरमांसीकुङ्कुमरोचनाः । कचोरवानराभ्यां च शाक्तो गन्ध उदाहृतः ॥ ५७ ।।