पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ धूपं दद्यादधः किञ्चिद् घण्टां वामेन वादयेत् । विशुद्धसितसूत्रेण स्युर्वर्त्त्यो वाथ तूलजाः ॥ ७५ ॥ दीपार्थं गोघृतं मुख्यं मध्यान्त्ये तैलमाहिषे । सकर्पूरदशो दीपः फलं दद्याच्छताधिकम् ॥ ७६ ॥ दीपः केवलकर्पूरः सहस्रगुण उच्यते । प्रभूतस्नेहसंपूर्णैर्दशभिर्वा नवाष्टकैः ॥ ७७ ॥ दीपैः प्रतिनवैराराद् भ्राम्यमारात्रिकं भवेत् । न दग्धशेषवर्त्या तु पुनर्दीपं प्रवर्तयेत् ॥ ७८ ।। नोच्छिष्टाशुचितैलाद्यैर्नान्यतैलघृतादिना । धूपदीपविधिः । व्रीहेः पञ्चशतं तलं द्विगुणितं ते द्वे प्रकुञ्चं स्मृतं ते ते द्वेऽथ प्रसरं तथैव कुडुबं प्रस्थार्धकं तद्बयम् । प्रस्थं पात्रमथाढकं शिवमथो द्रोणं च स्वारिः क्रमात् स्वारीणां त्रितयं हि भार उदितो मानं यथाशास्त्रतः ॥ ७९ ॥ नित्यं नैमित्तिकं चेति नैवेद्यं द्विविधं मतम् । तच्चोत्तमोत्तमाद्यं तु नवभेदेन वक्ष्यते ॥ ८० ॥ तण्डुला: शालिजाः शस्ता: कलमा राजशालिजाः । नीवारजास्त्वथो मध्या व्रीहिजा वैणवास्तथा ॥ ८१ ॥ प्रियङ्गुयवगोधूमश्यामाकास्त्वधमाः क्रमात् । तण्डुलेभ्योऽष्टमांशाः स्युरुपदंशास्तथा दधि ॥ ८२ ॥ द्वात्रिंशदंशमाज्यं स्याच्छर्करामधुनी तथा । तत्र नित्यविधेरष्टद्रोणशालिजतण्डुलैः ॥ ८३ ॥ सार्धरात्रं चतुष्कालं पूजायां विनिवेदयेत् । पायसं कुसरं गौलमन्नं तच्च चतुर्विधम् || ८४ || यथोचितोपदंशाज्यदध्यपूपरसोत्तरम् । संगीतनृत्तवादित्रं सभूतबलिमङ्गलम् ॥ ८५ ॥ ●. 'न्ते' ख. पाठ:. २. 'जं' ग. पाठः. ३. '६' ख पाठः, [सामान्यपादः