एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
७८ ईशानशिवगुरुदेवपद्धतौ - [सामान्यपादः स्यात् काम्यमपि नैवेद्यं यावद् वा प्रार्थितं भवेत् ।
न कालनियमस्तत्र साङ्गं पूजा प्रशम्यते ।। ९८ ।।
नैमित्तिककाम्यविधिः । क्षीरं त्रिभागं भागस्तु तण्डुलाः पायसस्य तु । क्षीराज्यतण्डुलतिलाः समाः स्युः कृसरान्नके ॥ ९९ ॥
भिन्न मुद्गैः शुभास्तण्डुलाः स्युः समास्तस्य चार्धं घृतं स्याद् घृतार्धं गुलम् । तण्डुलेभ्यस्तथा गोपयः षड्गुणं स्याद् गुलान्नं तु तद् युक्तरम्भाफलम् ॥ धौतदन्ता द्विजाः स्नातशुक्लाम्बरा वज्रपूतैर्जलैर्मौनिनस्तण्डुलान् । क्षालयेयुस्तथा सप्तकृत्वोऽङ्गकैर्ज्वालयेयुस्तथाग्निं धवित्रादिना ॥ १०१ ॥
ध्यात्वा चुल्लिं शक्तिमग्निं च रुद्रं वह्नेबर्बीजाँत् तारकाद् वाभिपूज्य ।
तस्मिन्ननौ तद्धविः साधयेयुरोङ्काराज्यं चाभिघार्याहरेयुः ॥ १०२ ॥
बृहत्यः कदल्यस्तथा कुण्डहाल्यः सकूश्माण्डमुक्तं भवेत् कर्करी च ।
तथा कारवेल्लं च चूतार्द्रकाख्ये बृहन्मुद्गमुद्गास्तथा नालिकेरम् ॥ १० ॥
सशिम्बाश्च माषास्तथा चिद्भटाख्यः कुलस्थाश्च शस्ताः प्रकृष्टोपदंशाः ।
कदल्यादिपक्कैः सिताप्योषलोणैर्युतः स्याद् यवानीदधिक्काथसूपः ।। १०४ ।।
तथा मोदकांश्चोपदंशांश्च कुर्याद् घृतव्योषलोणैर्यवानीष्टपिष्टैः । ततः पात्रवर्गं बहिः शोधयित्वा सशङ्खध्वजच्छत्रमुत्थापयेच्च ॥ १८ ॥
हिरण्याद्यमन्त्रं हृदा धौतमद्भिः कदल्यादिपत्राणि वात्राभिघार्य । हविस्तत्र दत्त्वा युतं चोपदंशैः कदल्यादिपक्वैः फलैर्मोदकैश्च ॥ १०६॥
सिताक्षौद्रदुग्धेऽथ दध्ना तु गव्यं घृतं चारुगन्धं नवं रागभागम् ।
निवेद्यात् प्रदेयं तु पुष्पार्पितेऽस्मिंस्ततो धेनुमुद्रामृतैः प्लावयित्वा ॥१०७॥
सम्प्रोक्ष्य मूलमन्त्रेण दत्त्वाम्भोऽग्निप्रियान्तिकम् ।
सपुष्पदक्षिणकरो हविः स्पृष्ट्वा निवेदयेत् ॥ १०८ ॥ ध्यायेत् तन्मनसा दिव्यमन्नाज्यं तृप्तिकारकम् । पानीयं च निवेद्यास्मै हृद्यं शीतं सुगन्धि च ॥ १०९ ॥