एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
वारुणस्नानाचमनाधिकारः] पूर्वार्धे नवमः पटलः । ब्राह्मींं पूर्व ततोऽस्त्राख्यां मन्त्रसन्ध्यां तथेतरः। उपास्योर्ध्वं जलं क्षिप्त्वा विधिस्नानं समाचरेत् ॥ २४ ॥
स्वमन्त्रसन्नद्धतनुः स्मृत्वात्मानं हृदम्बुजे । तृतीयं पूर्वमृद्भागमादायानाभि वारिणि ॥ २५॥
स्थित्वा वामकरे कृत्वा त्रिधा तां विभजेत् पुनः ।
दक्षिणं भागमस्त्रेण प्राक् स्वमूलेन तूत्तरम् ॥ २६ ॥ अङ्गमन्त्रेणाभिमन्त्र्य गृहीत्वास्त्रेण दक्षिणम् । ।
हुंफडन्तेन रक्षायै दशदिक्षु क्षिपेत् सुधीः ॥ २७ ।। मूलाभ्यस्तेन पूर्वेण जले दक्षिणपाणिना ।
निक्षिप्य भ्रामयेद् वारि शिवतीर्थमनुस्मरन् ॥ २८॥
अङ्गाभ्यस्तार्कदीप्तेन शिष्टभागेन विग्रहम् ।
सर्वमालिप्य तत्तीर्थ स्वनाम्नावाह्य पूजयेत् ॥ २९ ॥
गन्धपुष्पैर्यथालाभं मनसा वा समाहितः ।
मुख्यनद्यब्धितीर्थेषु नान्यतीर्थानि कीर्तयेत् ॥ ३० ॥ कीर्तनान्निष्फलं तत् स्यात् क्रुध्येच्चातो न कीर्तयेत् । केवलाम्भस्सु गङ्गादितीर्थानां कीर्तनं स्मृतम् ॥ ३१ ॥ तत्तत्फलप्रदं तस्मात् तत्र तीर्थानि कीर्तयेत् । ततः प्राणान् समायम्य त्रिर्निमज्ज्य समाहितः ॥ ३२ ॥
निमग्न एव साङ्गं स्वं मूलं शक्त्या जपेद्धृदा ।
अपिच द्विजश्चेत् - हिरण्यशृङ्गं वरुणं प्रपद्य इत्यथादितः सूक्तमुदीरयन् हृदा । निमग्न एवाम्भसि शक्तितोऽखिलान् हरत्यघौघानघमर्षणे स्थितः ॥ ३३ ॥
यथा जलौघे लवणस्य सञ्चयः प्रयाति सद्यो विलयं महानपि । तथा महानप्यघमर्षणेऽहसां चयोऽपि नाशं व्रजतीति निश्चयः ॥ ३४ ॥ १. 'जैः स्वः प्रा', २. 'च मन्त्रेण तू'. ३. 'मलम'. ४. 'क' क. पाठः ।