पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद: ततः स्थितो वारिणि वामदक्षिणौ करौ शशाङ्कार्कशिवद्वयात्मकौ । विभाव्य मूलेन च कुम्भमुद्रया शिरस्यथाङ्गैरपि वाभिषेचयेत् ॥ ३५ ॥ द्विजस्तु सूक्तैः पवमानपूरुषश्रियां यथाशक्त्यभिषिच्य तज्जलात् । तटं गतः स्वे परिधाय वाससी विशुद्धशुक्ले क्षतिदोषवर्जिते ॥ ३६ ॥ स्नातो नाङ्गानि निर्मृज्यात् पाणिना वार्द्रवाससा ॥ ३७ ॥ तथा नेक्षेत पाषण्डिपातकिश्वान्त्यजाशुचीन् । चितिं च चितिकाष्ठं च यूपं चण्डालमेव च ॥ ३८ ॥ स्पृष्ट्वा देवलकं चापि सचेलो जलमाविशेत् । नैमित्तिकेषु कृत्येषु ग्रहणेन्दुक्षयादिषु ॥ ३९ ॥ अयनद्वयतीर्थादौ सचेल : स्नातुमर्हति । सन्ध्यासु वमने शुकविण्मूत्रोच्छिष्टकुष्ठिनाम् ॥ ४० ॥ संपर्के वपने चाब्धेः स्पर्शने चाप्यपर्वणि । वृषलप्रतिलोमानां मार्जारस्पर्शनेऽपि च ॥ ११ ॥ श्मश्रुकर्मणि चोत्तीर्य नदीं वारुणमाचरेत् । दानादौ स्नानजप्यादौ तर्पणे हवनेऽपि वा ॥ ४२ ॥ सर्वत्र सपवित्रः स्यादन्यथा स्यात् तदासुरम् । यद्वा मुक्तशिखो नग्नः प्रलपन् वावकुण्ठितः ॥ ४३ ॥ करोति कृत्यं दैवाद्यं सर्वं विद्यात् तदासुरम् । पादप्रक्षालने मृत् स्यात् सकृत् पाण्योश्च सर्वदा ॥ ४४ ॥ स्नानादिसर्वकृत्यादौ भोजनादौ च संविशेत् । मूत्रादिशौचस्यान्ते च हस्तपादौ प्रघावयेत् ॥ ४५ ॥ अथाचमनकल्पोऽत्र सामान्यस्मृतिचोदितः । कथ्यते वैदिकी सन्ध्या तथास्त्राख्या च तान्त्रिकी ॥ ४६ ॥ अङ्गुल्यमे दैवमङ्गुष्ठमूले ब्राह्मं तीर्थ पर्वसन्धिप्वथार्षम् । प्राजापत्यं स्यात् कनिष्ठामथोऽथ पित्र्यं तर्जामूलदेशे द्विजानाम् ॥ ४७ ॥