________________
ईशानशिवगुरुदेवपद्धतौ सामान्यपाद:
छन्दसां तु विचितिस्तनयुग्मां धर्मशास्त्रहृदयां घनकेशीम् ।
न्यायविस्तरभुजामनलास्यां चन्द्रसूर्यनयनामुडुहाराम् ।। १.०५ ॥ मीमांसा (चा)थर्ववेदश्च चेष्टा वेदान्तः स्यान्मानसं योगसांख्ये ।
श्रोत्रे घ्राणं चापि मन्त्रास्तु यज्ञाः सर्वे चास्याः स्वाङ्गकान्तिप्रकर्षः ॥ १०६॥ एवंरूपां सर्वदा सर्वसिद्ध्यै ध्यात्वा देवीं साधयेत् ता जपाद्यैः । सन्ध्याभेदाद् ध्येयभेदा विशषात् संलिख्यन्ते जप्यसंसिद्धिहेतोः ॥ १०७ ।। हंसारूढां सिताब्जे त्वरुणमणिलसद्भूषणां साष्टनेत्रां
वेदास्यामक्षमालां स्रुचमथ कलशं दण्डमप्यादधानाम् । ध्यायेद् दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्याभिवन्द्यां सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥ १०८ ॥ ताार्क्ष्यारूढाम्बुजाक्षी शतमखमणिभा शङ्खचक्रे दधाना दोर्भिर्युक्ता चतुर्भिः स्थितिरिह जगतां या यजूंष्युद्गिरन्ती।
व्यालोलानेकहारद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः
सावित्री ध्येयरूपा विलसति सवितुर्मण्डले पीतवस्त्रा ॥ १०९ ॥
पञ्चास्यां पिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं
रणद्भूषाभुजङ्गस्फुटमणिकिरणव्यक्तभस्माङ्गरागाम् ।
ध्यायेत् खट्वाङ्गशूले भयहरवरदे व्याघ्रचर्माम्बराढ्यां
सावित्रीं सत्रिनेत्रां परिणतवयसं सामसूर्ति दधानाम् ।। ११० ॥
"ऋषभवाहनामपरसन्ध्यायां ध्यायेदिति यावत् "
इत्थं सन्ध्यात्रये त्रेधा सावित्री ध्येयविग्रहा ।। १११ ॥
अथास्याः प्रतिवर्णं तु दैवतानि भवन्ति हि । अमिः प्रजापतिः सोम ईशानः सूर्य एव च ॥ ११२ ॥ बृहस्पतिस्तथैवेन्द्रो भगश्चैवार्यमा तथा ।
सविता च ततस्त्वष्टा पूषाथेन्द्रानलौ मरुत् ।। ११३ ॥
ईश्वरो मित्रावरुणो स्कन्दो विश्वेऽथ चक्रभृत् । वसवो मरुतोऽर्थेशश्चाश्विनौ च पितामहः ॥ ११४ ॥
१. 'दाद वि' क. पाठः.