पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ ईशान शिवगुरुदेवपद्धतौ [सामान्यपाद: कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङुपग्रहात् । य इत्यत्र तु यत् तेजो नः षष्ठी युष्मदस्मदोः ॥ १२७ ॥ तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् । तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरिति स्मृता ॥ १२८ ॥ इत्थं जगत्प्रसवितुर्वरणीयमर्थं पापप्रभञ्जनकरं यदभीष्टदस्य । तेजस्तदेकममलं प्रविचिन्तयामः प्रज्ञां प्रयच्छतु स नो भगवान् महेशः ॥ इत्युक्तोऽर्थोऽत्र सावित्र्यास्तच्छिरः कथ्यतेऽधुना | आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ १३० ॥ तत्तेजो ह्यमृतं ब्रह्म सूर्य आत्मेति चोदना । एवं ज्ञात्वार्थतस्त्वेतान् न्यस्येद् देहे यथाक्रमम् || १३१ ॥ शिरोभ्रूमध्यनयनवक्रकण्ठेष्वथो हृदि । नाभौ च गुह्यजान्वङ्घ्रिद्वये चास्याः पदैर्न्यसेत् || १३२ ॥ ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरोऽपि सदाशिवः | एते सर्वात्मने जातियुक्ताङ्गमनवः कमात् ॥ १३३ ॥ इत्थं विन्यस्य गायत्रीमृष्यादीनभिवन्द्य च । जपेदायम्य तु प्राणाननन्तफलभाग् भवेत् ॥ १३४ ॥ प्रणवान्तरितं सप्तव्याहृतिप्रणवं पुनः । सावित्रीं शिरसा युक्तां जपेच्छतगुणं फलम् ॥ १३५ ॥ अष्टोत्तरसहस्रं तु जपेदेवमनन्यधीः । तदशक्तौ शतं वापि दशमात्रैमथापि वा ॥ १३६ ॥ पूर्वः पूर्वोऽत्र मुख्यः स्याज्जपशक्तिं न हापयेत् । अथोद्वासनमन्त्रस्य तूत्तमेशिखरेत्यृचः ॥ १३७ ॥ सावित्री देवतानुष्टुब् वामदेव ऋषिर्मतः । मित्रस्येत्याद्युपस्थानमन्त्राणां कौशिकस्त्वृषिः ॥ १३८ । मित्रस्तु देवता छन्दो गायत्रं चाप्यनुष्टुभात् । प्रदक्षिणं परिक्रम्य दिशोऽथ सदिगीश्वराः ॥ १३९ ॥ 9. 'त्र तथा' ख. पाठ: