पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे नवमः पटलः । अभिवन्द्य ततः पञ्च सन्ध्याद्या देवताः क्रमात् । सहस्ररश्मिमुद्यन्तमुपतिष्ठेद् दिवाकरम् ॥ १४ ॥ आत्मानं परमात्मानं ध्यात्वा पादाभिवादनम् । कृत्वाथ देवपूजां च होमजप्यं समाचरेत् ॥ १४१ ॥ अथातो विनियोगाद्यं सावित्र्याः कथ्यतेऽधुना | प्रत्याहारः शस्तदेशे तु लक्षं तिष्ठन् युक्तात्मा सूर्यबिम्बं जपित्वा । पश्यन् गव्याक्तैस्तावदग्नौ तिलैः स्याद्धुत्वा भक्तश्चेन्मन्त्रसिद्धो महात्मा ॥ १४२ ॥ अयुतं तु जले स्थितो जपित्वा ननु पापानि निहन्ति नाभिमात्रे । प्रयुतादुपपातकानि लक्षादखिलान्येव हि पातकानि हन्यात् ॥ १४३ ॥ दशलक्षजपेन कण्ठमात्रे सुमहापाताकनोऽप्सु यान्ति शुद्धिम् । त्रिसहस्रजपादभोज्यदोषात् परिशुध्येदपि वाङ्मनःकृताघैः ॥ १४४ ॥ अपहन्त्यपमृत्युरोगदुःखान्ययुतानां त्रितयं तिलाज्यहोमात् । मधुरत्रयसिक्त दौर्बलक्षत्रयहोमादपहन्ति कालमृत्युम् ॥ १४५ ॥ पुत्रं शालिहुतेन बिल्वकमलैर्लक्ष्मीं पलाशैः पशू- नन्नाद्यं सघृतान्नतस्तु कुमुदैर्वासांसि चैवोत्पलैः 1 वृष्टिं वेतसजैः सगोमयशिलामालेयगोरोचना- - कृप्तं लोकवशीकरं तु तिलकं स्पृष्टं सहस्रत्रयम् ॥ १४६ ।। पादपांसुक्कृतपुत्तलिहोमान्मारयेत् परमतीत्य तु विप्रन् । द्वेषयेच्च कलिवृक्षसमिद्भिश्चाटयेत् तदनले कलिपत्रैः ॥ १४७ ॥ कुन्दपुष्पहवनेन कुमारीं विन्दतेऽथ करवीरहुतात् स्युः । सिद्धयः स खलु कोटिजपात् स्यात् खेचर: सुरमुनीन्द्रसमेतः ॥ १४८ ॥ जुहुयात् पायसेनाज्यतिलदूर्वाङ्कुरैरपि ॥ १४९ ॥ चतुःक्षीरसमिद्भिश्च प्रत्येकं त्रिसहस्रकम् । P यत्तदुद्दिश्य तत् सर्वमचिरेणैव सिध्यति ।। १५० | १. 'शस्तं ति' ख. पाठः नित्यकर्मविधिः]