ईशान शिवगुरुदेवपद्धतौ [सामान्यपादः जुहुयात् पायसाज्याभ्यां तिलदूर्वाङ्करैरपि । प्रत्यक्षरसहस्रं तु दीर्घमायुरवामुयात् ॥ १५ ॥ मधुरत्रयसिक्तरक्तपद्मैरयुतं यो जुहुयाच्छ्रियं स विन्देत् । सघृतान्न हुतादथान्नवान् स्याद् विधिवद्वह्निमुखादिकं च कृत्वा ॥ १५९ ॥ आघाय वह्निं विधिवत् सूर्यमावाह्य तन्मुखे । तमप्याराध्य विधिवत् सावित्रीं तद्द्घृदम्बुजे ॥ १५३ ॥ समावाह्य तु मन्त्रेण ध्यायेत् सन्ध्योक्तलक्षणाम् । सपूज्य गन्धपुष्पाद्यैर्द्वादशान्तामृताप्लुताम् || १५४ ॥ स्वकृत्यं चापि सङ्कल्प्य जुह्वन् स लभते फलम् । अथ माध्यन्दिनं कर्म स्नानपूर्वं समाचरेत् ॥ १५५ ॥ स्नानं प्राग्वद् विशेषोऽत्र वैदिकः कथ्यतेऽधुना । प्रातः स्नानमृतेऽन्यत्र स्त्रास्यन् दन्तान् न घावयेत् ॥ १५६ ॥ हिरण्यशृङ्गमित्यादि पुनन्तु पुनरन्ततः । जपेन्निमज्ज्याथाचम्य गृहीत्वाञ्जलिना जलम् ॥ १५७ ॥ सुमित्राद्येन सन्त्वन्तं जपित्वारिदिशं प्रति । दुर्मिंत्राद्येन द्विष्मोऽन्तं प्रक्षिप्याचम्य वाग्यतः ॥ १५८ यदपांक्रूरमित्यादि गच्छतादन्तमम्भसि । त्रिरावर्त्य करेणाथ निमज्ज्याम्भस्तटं गतः ॥ १५९ ॥ उपविश्य तथाचम्य पाणिस्थाम्भोऽभिमन्त्र्य तु | आपः पुनन्त्वित्याद्येन स्वाहान्तं तत् पिबेत् पुनः ॥ १६० ॥ आचामेदस्य चर्षिः स्याद् ब्रह्मणस्पतिसंज्ञितः । देवताप्याप एव स्याच्छन्दोऽनुष्टुप् प्रकीर्तिता ॥१६१॥ आपोहिष्ठादितिसृभिः प्रोक्षयेद् दर्भपाणिना । हिरण्यवर्णाः शुचयः पवमानः सुवर्जनः || १६२ || इत्यादिमन्त्रैः संप्रोक्ष्य ततोऽम्भोमग्नविग्रहः । ऋतं च सत्यं चेत्यादिस्वरित्यन्तमृचां त्रयम् ॥ १६३ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३१
एतत् पृष्ठम् परिष्कृतम् अस्ति