पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९९ भात्मशुद्धयधिकारः] पूर्वार्धे दशमः पटलः। तद्वादशान्तादथ पूरकेण त्वानीय नाड्या हृदयाब्जमध्ये । संस्थाप्य मूलामृतवारिपूरैराप्लाव्य पूजादिकमारभेत ॥ २३ ॥ भूतशुद्धयधिकारः। अत्रोच्यतेऽन्या स्फुटमात्मशुद्धिर्या शोषणादिक्रमशोध्यदेहा । निश्शेषदोषक्षयशुद्धिदानाद् रोगान् जरां मृत्युमपि क्षिणोति ॥ २४ ।।

प्राग्वत् स्वदेहे सुषिरं तु चिन्त्य तव्द्यापिनी चान्तरबाह्यशक्तिम् ।
हुकारमध्यस्थितचित्तजीवः प्राणान् नियम्याहृतपूरकेण ॥ २५॥
ग्रन्थीन् विदार्याहृतरेचकान्तं चास्त्रेण वायु विनिवर्त्य पूरात् ।
चैतन्यमाहृत्य ससान्तजीवं हृत्संपुटं ज्योतिरनामयाख्यम् ॥ २६ ॥
तत्कुम्भकोद्धातवशात् तदूर्ध्वं त्वाकृष्य सौषुम्नपथा स्वकान्तम् ।
तद्द्वादशान्तस्थशिवे नियुज्य तत्त्वानि नीत्वा विलयं विलोमात् ॥ २७ ॥
वर्णान् विलोमात् क्षहसक्रमोक्तं नीत्वा लयं शब्दततिं च शक्तौ । 

शून्यं तु देहं मलपापमात्रं विचिन्त्य कृष्णं त्वथ नाभिचक्रे ।। २८ ।। बिम्बे तु वायोरतिधूम्रवर्णं यङ्कारमुद्भाव्य तु चण्डवायुम् । ध्यायेदधःशाखमथोर्ध्वमूलं संसारवृक्षात्मकमात्मदेहम् ॥ २९ ॥

अत्र ब्रह्मशम्भुः

___ "देहात्माधोमुखस्तत्र ध्यातव्यो भवपादपः" इति ।

तं शोषयेन्नाभिविनिर्गतेन ध्यात्वानिलेनाघमले च शोप्ये ।

उद्धातकैः पञ्चभिरस्य शोषं वायोनिरोधेन विधाय पश्चात् ।। ३० ॥

हृत्पङ्कजेऽन्त्यं विषवह्निवायुं सानुग्रहार्धेन्दुयुतं सनादम् । 

बीजं तु चिन्तामणिसंज्ञमेतद् बिम्बे हुताशस्य तु वह्निरूपम् ॥ ३१ ॥ विन्यस्य षट्कोणलसत्रिशूलज्वालासहस्रप्रसरैरपौधम् ।

सम्यग् दहन्तं तु कलेबराख्यं तद्भस्मसाद्भूतमपीह चिन्त्यम् ॥ ३२ ॥

"दहेत् पाशुपतास्त्रेण" इति पराख्यपोष्करयोरुक्तत्वात् पाशुपतास्त्रेण वा तद् दहेत् ।