पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

100 ईशान शिवगुरुदेवपद्धतौ [सामान्यपाद: प्रोत्सार्य चण्डानिलवायुबीजात् तद् भस्म सर्वं तु दिशो विकीर्य । शून्यं स्वतुल्यं परिभाव्य देहं शुद्धं तु तत् केवलपुण्यशेषम् ॥ ३३ ॥ अत्र ब्रह्मशम्भु:- ८ “ कुम्भकेनाग्निना शुष्कं निर्दग्ध च विचिन्तयेत् | रेचकेनाथ वायव्याद् भस्मीभूतं दिशो दश || प्रलीनमन्त्यया शुद्धं निर्मलं व्योम भावयेत् ।” इति । "कलेबरं दहेद् धीमान् भस्मकूटव्यवस्थितम् ।" इति श्रीकालोत्तरे । व्योमाम्बुजान्त स्थशिवस्य शक्तेरिच्छाक्रियाज्ञानवशात् सिसृक्षोः । शक्तैर्यथावल्लिभावल्लिपिवर्णपूगैस्तत्त्वानि चोत्पाद्य तु तैः शरीरम् || ३४ ॥ सृष्ट्वा तदण्डात्मकविश्वलोकं संभाव्य शुद्धं गतपाशबन्धम् । प्राग्द्वादशान्ताहितबीजजीवं त्याकृष्य तत्पूरकवायुमिश्रम् ॥ ३५ ॥ तद्ब्रह्मरन्ध्रेण निवेश्य मार्गाहृदब्जमध्ये शिवमात्मरूपम् | व्योमाब्जमध्येन्दुकलास्वराढ्यं द्व्यष्टच्छदाधारसुधाकलाभिः ॥ ३६ ॥ सौषुम्नमार्गेण पृथग् यथावदापूरयेद् व्युत्क्रमतः स्वराणाम् । सामृता मानसी तुष्टिपुष्टी तथा प्रीतिरुक्ता रतिः श्रीश्च शान्तिः स्वधा | कान्त्यथ ज्योस्रया हैमवत्या प्रभा पूरणी वामया स्यादमा षोडशी || ३७ || दक्षिणाङ्गुष्ठतो गुल्फजानू कटिश्चोदरं पाणिसन्धिर्भुजो दक्षिणः । मूर्ध्नि चार्धे क्रमाद् वामभागेऽपि च स्थानमुक्त कलास्तविलोमान्न्यसेत् || “अः अमायै नमः । ॐ वामायै नमः । औं पूरण्यै नमः ।” इत्यङ्गुष्ठादिमूर्धान्तं षोडशकला विन्यस्य तदमृतैः क्रमादापूरयेदित्युपदेशः । 'तोयमर्धेन्दुमत्पूर्णचन्द्रप्रभं स्वाम्बुजे भावयेत् तत्कलार्तस्वरम् । शङ्ख कुन्देन्दुगोक्षीरगीरामृतैर्ब्रह्मनीडापथापूर्य देहं स्वकम् ॥ ३९ ॥ २. स. पाठ: १. 'देनम्' ग. पाऊ'. ग. पाठ. म. 'दा', ४. 'मृ', ५. 'वक्रम'