पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

११० ईशान शिवगुरुदेवपद्धतौ पञ्चोपचारैरभ्यर्च्य चाच्छाद्य वसनैः सितैः । सप्तरात्र बलिं दद्याद् वक्ष्यमाणक्रमेण तु ॥ २९ ॥ ब्रह्म भूतेन्द्रगन्धर्वयक्षरक्षः पिशाचकाः । गणा बलिभुजः सप्त क्रमात् तन्नामलक्षिताः ॥ ३० ॥ सान्नपुष्पकुशं ब्रह्मरात्रे तु प्रथमे बलिः । अन्नं दधि निशाचूर्णं लाजाः सक्तुतिलास्तथा || ३१ || भूतक्रूरमिति ख्यातं भूतरात्रे प्रदापयेत् । इन्द्रवल्लीरसोन्मिश्रमन्नं सक्तुपयोदवि ॥ ३२ ॥ इन्द्ररात्रे तृतीये तु बलिं दद्यात् तु देशिकः । वैणवान्नं पयोयुक्तं गान्धर्वे स्याच्चतुर्थके ॥ ३३ ॥ पञ्चमे यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्वलिः | रक्तान्नं सतुषं मृत्स्नायुक्तं षष्ठे तु राक्षसे ॥ ३४ ॥ सप्तमे त्वथ पैशाचे माषान्नं कुसरं मधु । हारिद्रचूर्णं तैलाढ्यं सामिषं तु प्रदापयेत् ॥ ३५ ॥ अन्यथा केचिदाचार्याः प्राहुर्वै गुणसप्तकम् । तच्चात्र कथ्यते भूताः पितरोऽपि च गुह्यकाः ॥ ३६ ॥ नागा ब्रह्मा शिवो विष्णुर्देवताः सर्वरात्रिषु । प्रणवादिनमोन्तैः स्वैर्नामभिर्दापयेद् बलिम् || ३७ || प्रथमे भूतरात्रे तु भूतक्रूरेण दापयेत् । तिलैस्तण्डुल मिश्रैस्तु पितृरात्रे द्वितीयके ॥ ३८ ॥ तृतीये नालिकेराम्भः शाल्यन्त्रैर्यक्षरात्रके । सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके ॥ ३९ ॥ सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे । सापूपान्नेन साज्येन षष्ठे शैवे तु दापयेत् ॥ १० ॥ शुद्धौदनेन साज्येन सप्तमे वैष्णवे बलिः । यदा नव स्युर्दिवसा: पायसं कृसरं क्रमात् ॥ ४१ ॥ [सामान्यपादः