इशानशिवगुरुदेवपद्धतौ नवैर्माल्यपुष्पैरलङ्कृत्य चौतेस्तथाश्वत्थ बिल्वैर्दलैः पानसैश्च । विशुद्धैर्नवैश्वोन्मुखैः शक्रवल्ल्यां निबध्य स्मरेत् तं तरुं पारिजातम् ॥ ३१ ॥ सुपूर्णं तु पात्रं सितैस्तण्डुलैस्तत्सताम्बूलपूगं निधायास्य वक्रे । सुसूक्ष्माम्बराभ्यां सिताभ्यां नवाभ्यामलङ्कृत्य माल्यैश्च गन्धाक्षताभ्याम् ॥ समावाह्य शक्तिं प्रपञ्चप्रसूतिं विशुद्धां च विद्यां चितिं सूक्ष्मरूपाम् । पृथङ् मातृकार्णैस्तु तारान्तरस्थैः शतार्थं कलाश्चापि तारप्रसूताः ॥ ३३॥ कलास्त्रिंशदष्टौ च पूर्वोदिता याः क्रमात् सन्नियुज्यात् तु शक्तौ घटेऽस्मिन् । तथेच्छाक्रियाख्ये पुनर्ज्ञानशक्ति स्वतन्त्रप्रबोधावभिव्यञ्जयेच्च ॥ ३४ ॥ तथा शक्तिशान्तौ च हंसाख्यजींवं नियुञ्जीत तस्मिन् निजाङ्गैश्च मूलम् | प्रतिष्ठां च जीवस्य मन्त्रेण कृत्वा समस्तेन्द्रियाणां स्मरेत् सन्निधानम् ॥ ३५ ॥ ऋचः पञ्च याश्च द्विजस्तारकोक्ता नियुञ्जीत हंसः शुचीत्यादिरेका । प्रतद्विष्णुरन्या त्वनुष्टुप् तथा तत्पदाद्या च विष्णोर्नुकं चेति पूर्वा ॥ ३६ ॥ तथैवाङ्गमन्त्रैश्च मूलेन युक्त्या नियुञ्जीत तस्मिंस्तु साकारभावम् । यथोक्तोपचारैः समभ्यर्च्य सम्यक् स्मरेच्छक्तिमिष्टप्रदां चारुरूपाम् ॥ २७ ॥ जपापाटलाभां तु दृष्टार्थसिद्ध्यै सपाशाङ्कुशां चेष्टदाभीतिहस्ताम् । विचित्राम्बरस्रक्विपशङ्गानुलेपां लसच्चञ्चलीकप्रभाकेशपाशाम् ॥ ३८ ॥ स्फुटद्रत्नभूषाकिरीटप्रभाभिः पृथक् छत्रचापश्रियं बिभ्रतीं खे । प्रपञ्चप्रसूर्ति प्रपश्चात्मिकां तां विचिन्त्यार्चयित्वा हृदम्भोरुहे स्यात् ।। ३९ ॥ समावाह्य शिष्येष्टमन्त्रानुकूलां स्मरन् देवतां चेष्टरूपादिवर्णाम् । विदिक्ष्चक्रमन्त्रैश्चतुर्भिस्तदस्त्रं न्यसेद् दिक्षु नेत्रं तु मध्येऽर्चयीत ॥ ४० ॥ तदब्जच्छदाग्रस्थशक्तिस्तदुक्ता यजेल्लोकपालांश्च दिक्ष्वस्त्रदेवान् । क्रमात् पिङ्गपीता सिता धूम्रशुक्ला मधुच्छायपाण्डुच्छवी शुक्लरक्तौ ॥ ४१ ॥ सरोजप्रभश्चेति लोकाधिपाः स्युर्दशेन्द्रादयश्चाब्जभूशेषयुक्ताः । सुपीतं च वज्रं तु शक्तिः सुरक्ता सिताभस्तु दण्डः खड्गुवर्णस्तु खड्गः ॥ तडित्कल्प उक्तश्च पाशाङ्कुश: स्यात् सिताभा गदाप्यग्निकल्पं त्रिशूलम् दिनेशाभमब्जं तु चक्रं च तद्वत् क्रमादित्यमुक्तं यथास्त्राग्निवर्णैः ॥ ४३ ॥ ११४ १. 'रू', २. 'तो', ३. 'पातापनीसि' ख. पाठः , [सामान्यपादः
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५१
एतत् पृष्ठम् परिष्कृतम् अस्ति