पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्ध त्रयोदशः पटलः । द्विजः श्रौतमन्त्रैः स्वसूत्रोक्तमार्गाज्जुहोतीह सर्पिंर्यथा निष्कृति: स्यात् । प्रायश्चित्तं मूलतस्त्वद्विजानां हुत्वा चाष्टौ विंशतिं चापि मन्त्री ।। ६७ ।। जातिं तस्याथोद्धरेद् वक्ष्यमाणैर्मन्त्रैराज्यस्याहुतीनां त्रयेण । तारः शक्तिं मूलमन्त्रो निजायां भगवन्नस्यात्मनो योनिर्बीजाहारभावदेशशुद्धौ द्विजो भवतु-मन्त्रदेहः ठठ । तस्मादूर्ध्वं व्याहृतीभिश्च हुत्वा ॥ ६८ ॥ भगवन्नस्यात्मा मन्त्रात्मको भवतु ठठ | हुत्वानेनाप्याहुतीस्तत्र तिस्रो भूयो हुत्वा व्याह्रतीरत्र पश्चात् । अस्त्रेणैनं प्रोक्ष्य सन्ताड्यं सद्यो रेचादन्तः संप्रविश्यास्य पाशान् ॥ ६९ ॥ बिश्लेष्यास्माच्छेदयेदप्यथ।स्त्रान् मुद्रां बद्ध्वा त्वङ्कुशाख्यां पुनश्च । यश्चैतन्यं शिष्यदेहस्थमस्मादाकृष्येन्दौ द्वादशान्ते नियोज्य ॥ ७० ॥ इष्टेऽम्भोजे हृद्गते पूरके तु स्वात्मन्येतद् योजयेत् कुम्भकेन । समरसं तु नयेदथ रेचकान्मनुजभावमपास्य शिवात्मकम् ॥ ७१ ॥ स्मरतु हंसजपादभिपूज्य तत् पुनरुदस्य तु शिष्यहृदं नयेत् । नाडीमार्गाच्छिष्यहृत्पङ्कजे तञ्चैतन्यं तु स्थापयित्वा स्वपद्मात् ॥ ७२ ॥ सूतैरिन्दोः सौघधाराम्बुपूरैराप्लाव्यैनं मन्त्रदेहं विभाव्य | अनामयं शिष्यमलुप्तशक्तिं विचिन्त्य विन्यस्य तु मातृकार्णान् ॥ ७३ ॥ तदिष्टमूलाङ्गनिविष्टदेहं विधाय ते बालतनुं तनूजम् | जातकर्मादिकं तस्य कुर्यात् ततो मूलतस्तत् क्रमात् स्यात् त्रिवारं पृथक् । साङ्गमूलं जपंश्चोपवीतेन तं योजयेत् ततैश्चोदितैर्मूलतः ॥ ७४ ॥ मूलतस्तर्पयेत् पावकं शक्तितस्तत्र पूर्णां पुनश्चापि हुत्वा गुरुः । सामयाचारिकान् धर्मसेतूनमुं श्रावयेत् तान् यथा पालयेत् साधकः ॥ ७५ || इत्थमाचार्यतो मन्त्रदीक्षामसौ सप्तजन्मांहसां शोधनीमिष्टदाम् । जप्यहोमार्चनामन्त्रसिद्धिप्रदां प्राप्य सद्यः सुधीः स्यात् कृतार्थश्विरम् ॥ ७६३॥ इति श्रीमदीशान शिव गुरुदेवपद्धतौ तन्त्रसारे. मन्त्रदीक्षापटलस्त्रयोदशः ।