पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० ईशान शिवगुरुदेवपद्धतौ प्रणीतापात्रमिध्मं च चरुस्थालीं च मेक्षणम् । बर्हिषः सह कूर्चैरप्यन्यद्धोमोपयोगि यत् ॥ २६ ॥ वीहिनिर्वापपक्षे तु मुसलोलूखले तथा । शूर्पं कृष्णाजिनं चापि स्यात् सर्वं तदधोमुखम् ॥ २७ ॥ तिर्यक् पवित्रं प्रोक्षण्यामादायापूर्य चाम्भसा | अङ्गुष्ठानामिकाभ्यां तत् पाणिभ्यां परिगृह्यत्तु ॥ २८ ॥ विच्छिद्य त्रिः समुत्पूय पात्राण्यद्भिरवोक्ष्यं तु । उत्तानयित्वा त्रिः प्रोक्ष्य विस्रस्येध्मादिकं पुनः ॥ २९ ॥ प्रादेशसंमितैर्दर्भैरविच्छिन्नाग्रकैरपि । ब्रह्मासनं दक्षिणतः प्रणीतासनमुत्तरे ॥ ३० ॥ आज्यस्थाल्यासनं पश्चात् सङ्कल्प्य ब्राह्मणं शुचिम् | ब्रह्मार्थमुपवेश्यास्मिन् कूर्चं वा ब्राह्मणो न चेत् ॥ ३१ ॥ तारव्याहृतिभिर्ब्रह्म न्नादिनावाह्य चार्चयेत् । प्रोक्षणीवत् प्रणीतार्थं पात्रमापूर्य चाम्भसा ॥ ३२ ॥ दर्भस्थं दर्भसञ्छन्नमुद्धत्य घ्राणसम्मितम् । ब्रह्मणा समनुज्ञातः स्थापयेत् तत्तदासने ॥ ३३ ॥ वरुणोऽसीत्यथाराध्य व्रीहीन् वा तण्डुलानपि । स्रुचा स्थाल्याथवा तूष्णीमन्तर्घायाथ याज्यया ॥ ३४ ॥ अमुष्या इति निर्दिश्य देवतायै तु निर्वपेत् । व्रीहीश्चेदवहन्त्येष प्रोक्ष्य त्रिः क्षालयेच्च तान् ॥ ३५ ॥ पात्रेषु पातयेत् पश्चादस्मिन्नौ चरुं पुनः । श्रपयित्वा यथोद्दिष्टमभिघार्यावतार्य तु ॥ १६ ॥ उत्तरेणाग्निमासाद्य स्थाल्यामाज्यं विनिक्षिपेत् । निरूह्योत्तरतोऽङ्गारानधिश्रित्याज्यमासने ॥ ३७ ॥ दर्भाभ्यां तदभिद्योत्य चरुं चाम्भः स्पृशेत् पुनः । त्रिरभिद्योत्य चाज्येऽथ दर्भाग्रे तु विनिक्षिपेत् ॥ ३८ ॥ [ [सामान्यपाद