पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३१ ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः

अथैकादशसंस्कारानुपनिष्क्रामणादिकान् ।
मूलेन वौषडन्तेन कुर्यात् त्रिस्त्रिर्घृताद्धृतात् ॥ १५२ ।।

तद्यथा ---- उपनिष्क्रामणान्नप्राशनचौलोपनयनोपाकर्मव्रतसंग्रहणव्रतोत्सर्जनगोदानसमावर्तनविवाहाग्न्याधानानीति यावत् । स्रुच्याज्यपूर्णायां चाथ विन्यस्याधोमुखं स्रुवम् । सुगग्रे पुष्पमाधाय पाणिभ्यां शङ्खमुद्रथा ॥ १५३ ॥

श्लिष्टदण्डौ तौ गृहीत्वा समपादतया स्थितः । 

सुगग्रे दत्तदृष्टिः सन् मूलेन हृदयादिना ॥ १५४ ॥

वौषडन्तेनाज्यधारां यवमात्रामखण्डिताम् ।
मन्त्रान्ते पातयेदग्नावित्थं पूर्णाहुतिर्भवेत् ॥ १५५ ॥
अनन्तरं भोः शिवाग्रे ! त्वदीये हृदयाम्बुजे । 

यागेऽस्मिन् शिवमावाह्य स्वनुज्ञाता यजामहे !! १५६ ॥ इति लब्धाभ्यनुज्ञोऽथ स्वासनाङ्गस्वमूर्तिभिः ।

वह्नौ शिवं समावाह्य शिवसन्धानमाचरेत् ।। १५७ ॥
वह्रिस्थशिवनासाग्रनिष्ठयूताच्छिन्नतेजसा।
लिङ्गस्थशिवनासाग्रनिर्गतज्योतिषा सह ॥ १५८ ॥ 

सन्धानं पिङ्गलानाड्या त्वायागान्तं विभावयेत् ।

अभ्याज्यादिभिः प्रोक्तैर्हविर्भिस्तर्पयेच्छिवम् ॥ १५९ ॥ 

विध्युक्तानलजिह्वायां हूयमानं तु यद्धविः । अग्नेः सौषुम्नमार्गेण शिवमूर्ध्नि सुषुम्नया ।। १६० ।।

सन्धायामृतधाराभिर्हवीरूपाभिरीश्वरम् ।
तर्पयेत यथा स स्यात् प्रसन्नः स्वेष्टदः शिवः ॥ १६१ ॥

नाडीसन्धानाधिकारः। अथाज्यं च तिलाश्चान्नं साज्यं नित्ये हुतं स्मृतम् । A.-- - - - - - .. ... ..