एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
ईशानशिवगुरुदेवपद्धतौं हेमपीठाम्बुजे बहेर्मूर्तिं ध्यायेच्च वैष्णवीम् । पञ्चवक्रं चतुर्बाहुं हेमवर्णं त्रिलोचनम् ॥ १९८ ॥
तस्य पृथ्वी भवेत् पादौ द्यौः शिरस्त्वसवोऽनिलः । चक्षूंषि सूर्यः खं क्रोडं जिह्वाः सप्त जगन्ति ताः ॥ १९९ ॥ हृदये गार्हपत्यः स्यान्मुखेष्वाहवनीयकः । अन्वाहार्यो भवेत् कुक्षौ वेदा वक्राण्यनुक्रमात् ॥ २०० ॥ ऋङ्मयं प्राङ्मुखं हेमवर्णं दैविकसाधनम् । भिन्नाञ्जननिभं याम्यं याजुषं क्षुद्रकर्मकृत् ॥ २०१॥
पश्चिमं तूदयार्काभमाथर्व शान्तिके मतम् ।
उत्तरं साम चन्द्राभं काम्यकर्मप्रसाधनम् ॥ २०२ ॥
सर्ववेदमयं ह्यूर्घ्वंं स्फटिकाभं विमुक्तिदम् ।
एवं ध्यात्वाभिपूज्यैनं तदीये हृदयाम्बुजे ॥ २०३ ॥ वासुदेवं चतुर्बाहुं शङ्खचक्रगदाधरम् । यथोक्तरूपमावाह्य संपूज्योक्तैर्जुहोति च ॥ २०४
जयादिभिर्द्विजातिश्चेद्धुत्वा स्विष्टकृतं तथा ।
समापयेच्च तत् कर्म दत्त्वा तद्ब्रह्मदक्षिणाम् ॥ २०५॥ उत्सृज्याथ प्रणीताश्च तद्वत् परिधिविष्टरान् ।
वेरे वा स्वहृदब्जे वा प्रवाह्यामिस्थमच्युतम् ॥२०६ ॥ अग्निं चापि यथापूर्वं साङ्गोपाङ्गं प्रवाहयेत् । वैष्णवाग्निकल्पाधिकारः । कल्पोऽथ मान्त्रिको वह्नेरशेषार्थप्रसाधकः ॥ २०७ ॥
कथ्यते स्थण्डिलं वापि कुण्डं वा प्रोक्तलक्षणम्
गोमयालेपितं तारादुद्धृत्य शकलेन तु ॥ २०८ ॥ समीकृत्योपलिप्याथ हैमादिशकलेन तु । मध्ययाम्योत्तरा रेखास्तिस्रः प्राचीनमुल्लिखेत् ॥ २०९॥
१. 'त' ग. पाठः.