पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३७ मनाग्निकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः । मध्यापरैन्द्रगा रेखास्ततोदीचीनमुल्लिखेत् ।

अवोक्ष्य शकलं त्यक्त्वा सर्वत्र प्रणवं जपन् ॥ २१० ॥
अरणे, मणेर्वाग्निं श्रोत्रियागारतोऽपि वा ।
शरावादौ समानीतं निरीक्ष्याभ्युक्ष्य तारतः ॥ २११ ॥
क्रव्यादांशं परित्यज्य प्राङ्मुखो वाग्यतः शुचिः ।
जाठरं चैन्दवं चाग्निं भौतिकेऽस्मिन् नियोज्य तु ॥ २१२ ॥ 

स्नातामृतुमतीं शक्तिमश्विरं च सिसृक्षया । सतावभिपूज्यैतौ शक्तिबीजेन साधकः ॥ २१३ ॥

ईशबीजं विचिन्त्याग्निं शक्तेर्गर्भे विनिक्षिपेत् ।

इन्धनाभ्यां तमुत्थाप्य समाच्छाद्येन्धनैस्ततः ॥ २१४ ॥

ओं चित्पिङ्गल हन दह पच सर्वज्ञ आज्ञापयति ठठ ।

अनेन तु धवित्रेण ज्वालयित्वा हुताशनम् ।

ओं अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ॥ २१५॥
सुवर्णवर्णमनलं समिद्धं सर्वतोमुखम् ।
उपस्थानमनेनाथ कुर्यात् पुष्पं च निक्षिपेत् ॥ २१६ ॥ 

एकैकशस्तु प्रागादिदभैरास्तीर्य देशिकः ।

परिषिच्य जलैस्तूष्णीमभ्यर्च्याग्निं षडङ्गतः ॥ २१७॥
जलबिन्दुं जीवभूतं क्षिप्त्वा प्रणवतोऽनले । 

गर्भाधानादिकर्माणि षडङ्गैः स्वैरनुक्रमात् ॥ २१८ ॥

प्रत्याहुतित्रयं हुत्वा परिषच्याथ तारतः ।
दर्भेषूत्तरतो वह्वेः पात्राण्यासाद्य पूर्ववत् ॥ २१९ ॥.
तोयसेकदयाधेयसंख्यैर्दर्भैर्यथाक्रमम् ।
परिस्तीर्य यथापूर्वं प्रोक्षणीं वेधसं तथा ॥ २२० ॥
प्रणीतां चाभिपूज्याग्निं परिषिच्यादितः क्रमात् ।

ध्यात्वा हेमासनाम्भोजधवलं कसरोज्ज्वलम् ॥ २२१ ॥

१. वै' क.पा.:. २. :' क.. पाठः. ३. 'ये' क. पाठः, ४, 'ज्वा' ग.