पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
प्रथमोऽङ्कः।

भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमयो रात्रिंदिवमसंहलनान्दीकः, तत्किमिदानी विश्रान्तचा- रचरणानि चत्वरस्थानानि ।

(प्रविश्य )

 नटः भाव, प्रेषिता हि खगृहान्महाराजेन लङ्कासमरसुहृदो महात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावना ब्रह्मा- यो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् ।

 सूत्रधारः--आ, अस्त्येतन्निमित्तम् ।


सूत्रधारादीनिष्कास्य भूमिको प्रवेश्य प्रवर्तिध्वमाणकाव्याभिनयकथासूचकविष्कम्भो वक्तव्यः, तथापि सूत्रधारस्यैव काव्यकथाघटकदेशकालसंबन्धमङ्गीकृत्य बिस्कम्भवकथोपन्यासः सूत्रधारत्यापरित्यागाच प्रस्तावनात्वाहानिरिति कवेर्मतम् । तदनुसारे णाहमायोध्यकः संवृत्तोऽस्मीति । अयोध्यासंबन्धित्व च तस्यां कादाचित्कावस्थानरूपम् । तेन वैदेशिकोऽस्मीति उपरितनग्रन्थेन न विरोधः। यदा तावदिति । अत्रभवतः पूज्यस्य पौलस्त्यकुलस्य रावणवशस्य धूमकेतोरग्निवद्भस्मीकर्तुरुत्पातग्रहविशेषस्य वा । महाराजश्वासौ रामश्च इति विग्रहः तस्य । रात्रिंदिवमर्निशम् । 'अचतुर-सूत्रे निपातितोऽयं शब्दः । असंहृतनान्दीकोऽविच्छिन्नमङ्गलः । शेषाद्विभाषा' इति कम् । हखप्रतिषेधः । अयं पश्याभिषेकसमयः घडा पवाभिषेकमुहूर्तः यस्मिन्काले । यद्धा समय आचार: पहाभिषेकरूप चारो यदा यस्मिन्काले । इदानीमस्मिन्काले पदाभिषेकसमये चत्वरस्थानान्यङ्गणभागाः विश्रान्तमवसित चाराणामधिकारिपुरुषाणां चरणं संचरणं येषु तानि । विश्रान्ताश्चाराणामधिकारिपुरुषाणां चरणा अजयो येष्चिति वा । चारा निवृत्तव्यापाराः सन्तः चत्वरेषूपविश्य विश्राम्यन्तीति भावः । तत्किमिदानी पहाभिषेककाले चत्वरस्थानानि विश्रान्तच्चारचरणानीति यत् तत् किमिति चोजना । यस्मिन्दिबसे कलशतीर्थसेन्चनरूपपधभिषेकक्रियाधिकरणमुहूर्तस्तदिवसापूर्वोक्तादिनानां तदुत्सवकालत्वेन यथायमभिषेकसमय इत्युक्तिरविरुद्धा । सूक्ष्मकालं प्रति स्थूलकालस्याधारत्वात् । प्रासादखटापर्वकन्यायोऽत्रानुसंधेयः ॥ भाव, प्रेषिता इति । महात्मानो महाधैर्याः । सभाजनं सपर्यामुपतिष्ठन्ते प्राप्नुवन्तीति सभाजनोपस्थाथिमः । 'सुप्यआता' इति णिनिः । इदं च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति । ब्रह्मर्षयो गौतम्विश्वामित्रादयः, राजर्षयस्तु जनकप्रभृतयः । देवर्षीणां ऊर्यदिग्गमनानानादिगन्तेयुक्तिः । यत्समाराधनाय येषां प्लवङ्गमादीनां समाराधनाय पूजनाचैतावतो दिवसानेतावत्सु दिवसेषु । अत्यन्तसंयोगे द्वितीया । प्रमोदः । चारगतागतहेतुभूतपहर्ष इत्यर्थः । यत्समाराधनाय प्रमोद आसीत, ते प्रेषिता इत्लन्वयः । 'तत्समाराधनाय' इति तस्पयुक्तपाठे तु न विश्रान्तचारचरणत्वे हेतुरुको भवतीत्यत्राह-तत्समाराधनायेति । एवं चारचरणहेतुर्गत इति भावः ।। आ, अस्त्येतन्निमित्तम् । आ इति स्मरणया-