पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
उत्तररामचरिते

 अरुन्धती--(निश्वस्म ।) एवमेतत् । अमिरग्निरिति वत्सां प्रति लधून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से,

  शिशुर्वा शिष्या बा यदसि मम तत्तिष्ठतु तथा
   विशुद्धेरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति ।
  शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्यासि जगतां
   गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ॥ ११ ॥

 कौसल्या-अहो, समुन्मूलअन्ति विज वेअणाओ। (इति मूर्च्छति ।)

 जनक:- हन्त, किमेतत् ।

 अरुन्धती- राजर्षे, किमन्यत् ।

  स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः
   स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम् ।
  विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी
   पुरंध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥ १२ ॥


 १. अहो, समुन्मूलयन्तीव वेदनाः।


एवंवादिना अमिशुद्धिरिति वादिना जनेन परिभूयामहे अवमन्यामहे । उपसर्गवशेन भवतेः कर्मणि लकारः ॥ एतत्परिभूयामहे इत्येतत् । एवं जनकोक्तदशासद्भाव एव । लघून्यक्षराणि लाघनापादकशब्दाः । सीतेत्येव पर्याप्तम् । वहिसीतयोः पावनस्वे समकक्ष्यत्वात्प्रत्युत सीतायाः प्रकर्षात्सीताशब्द एव परिपूर्ण इति भावः । शिशरिति । रवं मम शिशुर्वा शिष्या वासीति यत् तसिष्टविति योजना । विशुद्धः निर्दोषताया: उत्कर्षः अतिशयः । तथा भक्ति अन्यादृशीं पूजनीयताप्रतिपत्ति त्वयि मम द्रढयति स्थिरां करोति । शिशुत्वं स्त्रैणं स्त्रीत्वं वा । 'स्त्रीपुंसाभ्यां नलजी' इति नन्प्रत्ययः । भवतु स्यात् । न तु सावता वन्द्यावहानिः । जगतां वन्द्यासि अभिवादनीयासि । नचित्यवधारणे । गुणाः गुणिषु अहिंसाशौचमस्तेयमिलायुक्तगुणवत्सु पूजास्थानमन्वयव्यतिरेकाभ्यां पूजाप्रयोजकाः । लिङ्गजटोपवीतादिकं न पूजाप्रयोजक्रम् ॥११॥ वेदना दुःखानि । समुन्मूलयन्ति मूलमुत्पाटयन्ति । इति मूच्छति भू मभिनयति ॥ हन्त' किमेतत् । शस्त्राभिषातादिकमन्तरा मूछो विस्मयनीयेत्यधः ॥अन्यत्किम् । वक्ष्यमाणादन्यन्न किमपीत्यर्थः । स राजेति । स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसा इति यत्तदखिल सुहृदि त्वयि दृष्टे सति स्मृतावाविर्भूतं कस्याप्यंशस्य प्रतोषेण स्मृतिविषयीभूतम् । 'सदृशा दृष्टचित्तायाः स्मृतिबीजस्य बोधकाः' इत्युक्तेः। पोरे भयकरे अस्मिन्निपाके प्रकृतसीतात्यागरूपदैवपर्यवसाने तब सखी कौसल्या विमूढा नेति न ! अप्यनामयमस्या इत्यादिभवद्वचनमङ्गथाविष्कृतो भवन्मतरीत्या योऽस्थाः कठिनचित्त-