पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
चतुर्थोऽङ्कः

 जनकः-हन्त सर्वथा नृशंसोऽस्मि । यञ्चिरस्य दृष्टान्प्रियमुहृदो प्रियदारानस्निग्ध इव पश्यामि ।

  स संबन्धी श्लाव्यः प्रियसुहृदसौ तच्च हृदयं
   स चानन्दः साक्षादपि च निखिलं जीवितफलम् ।
  शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं
   महाराजः श्रीमान्किमपि मम नासीद्दशरथः ॥१३॥

कष्टमियमेव सा कौसल्या।

  यदस्याः पत्युर्वा रहसि परमं त्रायितमभू-
   दभूयं दम्पत्योः पृथगमुपालम्भविषयः ।
  प्रसादे कोपे वा तदनु मदधीनो विधिरभू-
   दुलं वा तत्स्मृत्वा दहति यदवस्कन्ध हृदयम् ॥ १४ ॥


ताप्रयुक्तमू भावो वा नेत्यर्थः । पुरंध्रीणां चित्तं हि यस्मारकुसुमपन्मृदु तस्माद्विमूढानेतिन॥१२॥ एवमरुन्धत्या बोधितोऽतुतपति- हन्तेति। योऽह चिरस्य दृष्टयन चिराहशान्प्रियसुहृदो दशरथस्य विप्रान्मत्प्रीतिविषयान्मयि प्रीतिचुक्तान हि दारान कौसल्यामस्निग्ध इव शत्रुरिव पश्यामि शत्रुकर्तृकदर्शनसदृशदर्शनवानसि । सोऽहं सर्वप्रकारेण क्रूरोऽस्मि । हन्त अनुतप्यते । स संबन्धीत्यादि । श्रीमान् लक्ष्मीवान्महाराजः सावैभौमः स दशरथः मम इलाध्यः संबन्धी अभूत् । असौ संबन्धीभूतो दशरथः प्रियसुहृदभूत् प्रीतिमान् शोभनहृदयवांश्चाभूत् । 'सुहद्द हृदौ मित्रामित्रयोः' इति हृदयशब्दस्य हृदादेशः । तदन्तरङ्गत्वेन प्रसिद्ध हृदयं चाभूत् । चकारेण संबन्धिसुहत्वसमुच्चयः । तदिति दशरथपरं विधेयप्राधान्याक्लीवत्वम् । एवं च तत् संवन्धिसुहद्भूतदशरथः हृदयं चाभूदिति वा । स पूर्वोक्तत्रयात्मा दशरथः साक्षादानन्दश्च । साक्षाच्छन्देनानन्दहेतावानन्दत्वात्कोपो व्यावर्तते । साक्षान्मुख्य इत्यर्थः । निखिलं जीवितफलमपि च कर्मशानभक्तिरूपं जीवनप्रयोजनं च । चकारः पूर्वसभुच्चायकः । शरीरमभूदुर्लभो मानुषो देह इत्युक्तं शरीरं चाभूत् । सकलधर्मसाधनत्वात् ।जीवो वाभूत्। जीवश्चाभूतस्य हि ज्ञानानन्दमयत्वात्प्रेमास्पदत्वम् । अतो जीवादधिक समस्तकल्याणगुणामृतोदधित्वेनानन्दमयत्वेन च प्रकृष्ट प्रियतरं प्रियो जीवः प्रियतरं ब्रह्म तथाविध थापरं वृक्ष तदभूत् । अत एव ततः कि नाभूत् । सर्वमप्यभूदित्यर्थः । लोके संबन्धि सुहृदादीनां तत्तन्मात्रत्वमस्य तु सर्वदा सर्वविधत्वमिति भावः ॥ १३॥ यदस्या इति। अस्या वा पत्युर्दशरथस्य वा यत्परम नायितमभूदहसि गुप्तभाषण विचारो वा जातः । आचारणिजन्तात्कर्तरि क्तः । तत्राद्द दम्पत्यो यापलोः पृथगुपालम्भविषयोऽभूवं परस्परपरिहारेण परस्परविषये अयमेवमुक्तवानयमेवं कृतवानियमेवमुक्तवती इयमे कृतवतीलादिपरस्परापराधकथनपात्रमासम् । 'परमत्याहितमभूव' इति पाठोऽपि दृश्य ते। प्रणयकलहरूपजीवानापेक्षकमेति तदर्थः । शेष पूर्ववत् । तदनु उपालम्मानन्तरं