पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
उत्तररामचरिते

पेक्खामि दे मुहपुण्डरीअम् । (चुबुकमुन्नमय्य निहाय साध्याकूतम् । राएसि, किण पेक्वसि । णिउणं णिरूवज्जन्तो वच्छाए मे बहुए मुहच- न्देण वि संवददि एव ।

 जनकः-पश्यामि सखि, पश्यामि ।

 कौसल्या-अम्हहे, उम्मत्तीभूदं विअ मे हिअअं कुदोमुहं क्लिवदि।

 जनकः-

 बरसायाश्च रहस्य च शिशायस्मिन्नभिव्यज्यते
  संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः ।
 सा बाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ
  हा हा देवि किमुत्पधैर्मम मनः पारिप्लवं धावति ॥ २२ ॥

 कौसल्या-जाद, अस्थि दे मादा, सुमरसि वा तादम् ।

 लव-नाहि ।

 कौसल्या-तेंदो कस्स तुमम् ।


ऽपि तादृश एव । जात, पश्यामि ते मुखपुण्डरीकम् । राजर्षे, किं नपश्यसि । निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवत्येव ।

 १. अहो, उन्मत्तीभूतमिव मे हृदयं कुतोमुख विलपति ।

 २. जात, अस्ति ते माता, स्मरसि वा तातम् ।

 ३. ततः कस्य त्वम् ।

चन्द्रेण संवदस्येव । सीतामुखचन्देति यौगिकसादृश्यप्रमाणविषयो भवति ॥ पश्यामि सखि पश्यामीति आदराद्विरुक्तिः ॥ उन्मत्तीभूतमिव विभ्रान्तमिव कुतोमुख यत्र क्वापि असंभाव्यविषये लममिति यावत् । विलपति परिदेवयति । 'विकलते' इति च पाठः ॥ बत्साया इति । अस्मिन् शिशौ लवे वत्सायाः सीताया रहस्य रामचन्द्रस्य च संवृत्तिः संपर्कः । संबन्ध इत्यर्थः । प्रतिविम्बितेवाभिव्यज्यते अभिव्यका भवति । दर्पणादौ बिम्बवदृश्यत इत्यर्थः । निखिला कृत्स्ना आकृतिरवचवस्थानविशेषः सैव सीता रघुबहसंबन्धिन्येव । द्युतिर्लावण्यं तयोरेव संबन्धिनी । वाणी लवस्य वाक् सा तयोरेव संबन्धिनी । विनयः प्रश्रयः स एव सहजः स्वाभाविकः । पुण्यश्वासी पावनवासी अनुभावः समीचीनव्यवसायः । असौ सीतारधूद्रहसंबन्ध्येव । अदूरविप्रकृष्टवान्च्चोऽदःशब्दः । 'अनुभावः प्रभावै च सतां च मतिनिश्चये' इत्यमरः । देवि सीते, मम मनः पारिप्लवं सत् चञ्चलं सत् उत्पथैरमार्ग: धावति अनवस्थितं भवति । हा हा। दुःख्यत इत्यर्थः । देवीत्यनेन देवभूयगतायास्तव क्रथामिद संगच्छत इति व्यज्यते । अत एव द्युत्पथैरित्युक्तम् । अत्र च 'ऋक्पूरब्धःपथामा--' इति समासान्तः ॥२२॥ कस्म