लव:-भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।
कौसल्या-अयि जाद, कहिदश्वं कहेहि ।
लवः--एतावदेव जानामि ।
(नेपथ्ये।)
भो भोः सैनिकाः, एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या इति ।
अरुन्धतीजनको-अये, मेध्याश्वरक्षाप्रसन्नादुपागतो वत्सश्चन्द्रकेतुर्द्रष्टव्य इत्यसौ सुदिवसः।
कौसल्या-वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिदबिन्दुसुन्दराई अक्खराई सुणीअन्दि ।
लबा-आर्य, क एष चन्द्रकेतुर्नाम ।
जनकः-जानासि रामलक्ष्मणौ दाशरथी ।
लवः–एतावेव रामायणकथापुरुषो ।
जनक:-अथ किम् ।
लव:-तत्कथं न जानामि !
जनक:-तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः ।
लवः--ऊर्मिलायाः पुत्रस्तहि मैथिलस्य राजदौहित्रः ।
अरुन्धती-आविष्कृत कथाप्रावीण्यं वत्सेन ।
जनकः--(विचिन्त्य) यदि त्वमीदृशः कथायाम
१. अथि जात, कथितव्यं कथय ।
२. वत्सलक्ष्मणस पुत्रकः आज्ञापयतीत्यमृतविन्दुसुन्दराण्यक्षराणि श्रूयन्ते ।
त्वम् । कस्माजात इत्यर्थः । सुगृहीत सुष्टु प्रतिपादितं नामधेयं यस्य तथोक्तस्य वाल्मीकेस्तस्माज्जातः॥ सैनिकाः सेनासमवायिनः । अभ्यर्णभूमयः समीपदेशाः । ता: नाक्रसितव्या न केनापि स्प्रष्टव्या इति । आज्ञापयतीत्यर्थः॥मेध्याश्वस्य यज्ञाशाश्वस्य प्रसङ्गादवझ्यानुरोव्यत्वाद्धेतोः द्रष्टव्य इति सुदिवसः । चन्द्र केतुदर्शनाच्छोभनदिवसोऽयं विस्मयनीय इत्यर्थः ॥ अमृतबिन्दुसुन्दराश्वक्षराणि सुधापृषत इव भोग्याः वर्णाः ॥ दाशरथी दशरथपुत्रौ जानाति किमिति काका योजनीयम् ॥ रामायणकथायाः रामायणमामकवाक्यप्रबन्धस्य पुरुषौ प्रतिपाद्यौ ॥ अश्व किमिलङ्गीकारे । तहिं ऊर्मिलापुत्रत्वे मैथिलस्य मिथिलाधिपतेः ॥ आविष्कृत प्रकाशितम् । वत्सेन लवेन ॥ कथायानभिज्ञस्त-