पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
पञ्चमोऽङ्क:।

  देवम्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति-
   स्त्यां मैत्रावरुणोऽभिनन्दतु गुरुय॑स्ते गुरूणामपि ।
  ऐन्द्रावैष्णवमामिमारुतमथो सौपर्णमोजस्तु ते
   देयादेव च रामलक्ष्मणधनाघोषमनो जयम् ॥ २७ ॥

 लवः-- अतीव हि नाम शोभसे रथस्थ एव । कृतं कृतमत्यादरेण ।

 चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलंकरोतु ।

 लव:-आर्य, प्रत्यारोपय रथोपरि राजपुत्रम् ।

 सुमन्त्र:-त्वमप्यनुरुद्धयस्त्र वत्सस्य चन्द्रकेतोर्वचनम् ।

 लव:-को विचारः खेधूपकरणेषु । किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः ।

 सुमन्त्र:---जानासि वत्स, दर्पसौजन्ययोर्यदाचरितम् ! यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन हृदयमभिप्यन्दयेत् ।

 लव-अन्यच्च चन्द्रकेतो, सुजनः स राजर्षिः श्रूयते । (सलजमिव ।)

  यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ
   क इब न गुणैस्तं राजानं जनो बहु मन्यते ।


कल्पता तस्मिन् समर्थो भवतु । देव इति । देवः सविना सूर्यः धिनोतु प्रीणयतु । मैनावरुण' वसिष्ठस्त्वामभिनन्दतु । इन्द्रस्य विष्णोश्च इदं ऐन्द्रावैष्णवम् । देवताद्वन्द्वे च' इति आनड् । अग्ने रुतस्य चेदमानिमारुतम् । 'इौ ' इति इत् । सौपर्ण गरुडदैवत्यमोजः पराक्रमः । ज्याघोष एव मन्त्रः । जयं पराभिभवं देयाद्दयात् । एतेलिटि' इत्येत्वम् ॥ २७ ॥ शोभरी हृयो भवसि । अत्लादरेण कृतम् । अबरोहण न कार्यस्पिति भावः । तहिं मदवरोहणे अनिष्टे । प्रत्यारोपय आरोपय । राजपुत्रं चन्द्रकेतुम् ॥ त्वमप्यनुरुध्यस्व चथा चन्द्रकेतुस्त्वद्वचनं रथादनचरोहणेनानुरोधितवान् तथा त्वमपि तद्वचन रथारोहणेनानुसर ॥ स्वेषु स्त्रीयेधूपकरणेषु स्थादिषु । अरण्ये सीदन्ति वसन्तीपरण्यसदः । 'सत्सूद्विष-' इखादिना किम् । अनभ्यस्तरथवर्याः अपरिचितरथगतयः॥ दर्पसौजन्ययोः यदाचरितं पराक्रमसख्यगत्योरनुगुणोऽयमाचारस्तम् । जानासीत्यर्थः । अयं लबः अस्य रामभद्रस्य हृदयमभिष्यन्दयेत् द्रवयेत् ॥ यदि चेति । वयमह क्रतुद्विषतां यज्ञादि धातुकानानरौ शासितरि रामभद्रविषये एवंप्राया यदि प्रेमपात्रभू- ताश्चेत्क इव को वा त राजान रजक त रामभद्रं गुणैः शीलादिभिः हेतुभिः न बहु मन्यते।