पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
उत्तररामचरिते

  तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां
   विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥ २८ ॥

 चन्द्रकेतुः--किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ।

 लव:--अस्त्विहामर्षों माभूद्वा । अन्यदेतत्पृच्छामि दान्तं हि राजानं राघवमनुशुश्रुमः । स किल नात्मना दृष्यति नाप्यस्य प्रजा वा दृप्ता जायन्ते । तत्कि मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ।

  ऋषयो राक्षसीमाहुर्वाचमुन्मत्तहप्तयोः ।
  सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः ॥ २९ ॥

इति ह स्म तां निन्दन्ति । इतरामभिष्टुवन्ति ।

  कामं दुग्धे विप्रकर्षत्यलक्ष्मी
   कीर्ति सूते दुईदो निष्पलान्ति ।
  शुद्धां शान्तां मातरं मङ्गलानां
   धेनुं धीराः सूनृतां वाचमाहुः ॥ ३०॥

 मुमन्त्र:--परिभूतोऽयं बत कुमारः प्राचेतसान्तवासी। बदत्ययमभ्युपपन्नामर्षेण संस्कारेण ।

 लव: यत्पनश्चन्द्रकेतो. वदसि किन भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति ।


सर्वोऽपि तं संभावयतीत्यर्थः । सौजन्यस्य को विरोध इत्यत्राह-तदपि तथापि अखिलक्षत्राक्षेपः सकलराजतिरस्कारस्तेन प्रचण्डतया क्रूरतया तुरङ्गमरक्षिणामश्वमेधाश्वरक्षकानां विकृति मन्यु स व्याहारच 'तां पताकां हरामि वः' इत्यादिकः । अथवा तुरगमरक्षिणो व्याहारः 'सप्तलोकैकवीरस्य इत्युक्ति: मे विकृति मन्यु अकरोत् ॥ २८ ॥ दान्तमनहंकारमनुशुधुमः श्रुतवानस्मि । आत्मना खयं न दृप्यति नाहकरोति, प्रजा वा हप्तान जायन्ते । राक्षसी वावं दृप्तवाचम् । तदाह-ऋषय इति । योनिः कारणम्। निष्कृतिः परिभवहेतुः ॥ २९॥ इतरां वक्ष्यमाणाम् । काममिति । काममभिलपितं दुग्थे प्रपूरयति । अलक्ष्मी विप्रकर्षति दूरीकरोति । कीर्ति गुणवत्ताप्रथा सूते जनयति । दुहृदः शत्रून् निष्पलान्ति अतिशयेन नाशयति । सूनृता बागिति शेषः । शुद्धा दोषशून्यां शान्ता कार्कश्यरहिता मगलानां मातरं हेतुं धेनुं खरूयेणाभोग्या धीराः ध्यानशीलाः सूत्ता शुद्धामाहुरिति योज्यम् । इतीतरामभिष्टुवन्तीति पूर्वणान्वयः ॥ ३० ॥ अभ्युपपन्नामर्षेण उत्पन्नासहनेन संस्कारेण वासनया । तातप्रतापो- त्कर्षेऽयम इति यद्वदसि अनोच्यते इति शेषः । व्यवस्थितविषयः रामभद्रमात्रनियताधिकरणकः क्षन्नधर्मः क्षनियासाधारणपराक्रमातिशयादिः । अतिप्रसादनिष्टप्रस-