पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
पञ्चमोऽङ्क:।

 सुमन्त्रः-नैव खलु जानासि देवमैक्ष्वाकम् । तद्विरमातिप्रसङ्गात् ।

  सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
  जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥ ३१ ॥

 लव:---(सहासम् ।) आर्य, जामदग्न्यस्य दमनः स राजेति कोऽयमुच्चैर्वादः।

  सिद्धं खेतद्वाचि वीर्य द्विजानां
   बाह्वोवीर्य यत्तु तत्क्षत्रियाणाम् ।
  शस्त्रयाही ब्राह्मणो जामदत्य-
   स्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥

 चन्द्रकेतुः-(सोन्साथमिव ।) आर्य सुमन्त्र, कृतमुत्तरोत्तरेण ।

  कोऽप्येष संप्रति नंवः पुरुषावतारो
   वीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
  पर्याप्तसप्तसुक्नाभयदक्षिणानि
  पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥

 लव:---को हि रघुपतेश्चरितं महिमानं च न जानाति । यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् ।

  बृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हूं वर्तते
   सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।


अनाद्विरम विरतो भव । 'जुगुप्साविराम-' इति पञ्चमी । सैनिकानामिति । प्रमाथेन प्रकृष्टविलोडनेन ओजायितमोजस्तीभूतम् । भावे कः । जामदग्न्यस्य दमने परशुरामस्थ जेतरि रामभन्ने विषये । निर्बन्ध रूक्षवादम् ॥३१॥ सिद्धमिति । द्विजानां विप्राण दाचि वीर्च पराभिभवनसामर्थ्यामिति यत् । क्षत्रियाणां बाहोवीर्यमिति यत् । एतत्सिद्ध प्रसिद्ध किल । जामदग्न्यः शस्नग्राही ब्राह्मणः । तस्मिन्दान्ते तस्य राज्ञः तद्दमनकरामभद्रस्य स्तुतिः गुगाभिधानिका का । न किमपीत्यर्थः ॥३२॥ कोऽपीति । यस्य परशुरामश्च वीरो न । यज्ज्ञानविषयावीरलवान् भृगुनन्दनः । यः पुरुषः सप्तानां भुवनानां समाहारः सप्तभुवनं तस्याभयं भयनिवारणं तदेव दक्षिणा प्रत्युपकारनिरपेक्ष स्वाभ्यु- यमुद्दिश्य दान सा पर्याप्ता पूर्णा येषु तथोक्तानि तातचरितानि पुण्यानि रामभद्रवृत्तलक्षणगुम्फकर्माणि शुभकर्माणि तथा तु न वेद न जानाति । एषः नवः पुरुषावतारः कोऽपि । क्षेपेऽय किशब्दः । अत्र रामचरितलक्षणऋतूनां जगदभयदानमेव दक्षिणेति वर्णनाद्रूपकालंकारः ॥ ३३ ॥ बदि नाम किचिदस्ति वक्तव्यम् । बक्तव्यं किंचिदरित क्रिमित्यर्थः । वृद्धा इति । अविचारणीयचरितास्ते वृद्धास्तियन्तु । वयोमात्र तेष