पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
उत्तररामचरिते

रुद्धसर्वद्वार नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो, साधु । स्थाने वायव्यमस्त्रमीरितम् । यतः ।

  विद्याकल्पेन मरुता मेघानां भूयसामपि ।
  ब्रह्मणीब विवर्तानां वापि प्रविलयः कृतः ॥६॥

 विद्याधरी-माध, को दाणि एसो ससंभमोक्खित्तकरम्भमदुत्तरीअञ्चलो दूरदो एच महुरसिणिद्धवअणपडिसिद्धजुद्धश्वाधारो एदाणं अन्दरे विमाणवरं ओदरावेदि।

 विद्याधर :-----(दृष्ट्वा ।) एष शम्बूकबधात्प्रतिनिवृत्तो रघुपतिः ।

  शान्तं महापुरुवसंगदितं निशम्य
   तगौरवात्समुपसंहृतसंप्रहारः ।


 १. माथ, क इदानीमेष सनिमोरिक्षप्तकरभ्रमदुत्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापारो एतयोरन्तरे विमानबरमवतारयति ।


असनेन कबलनेन । एकबारः इहानावृत्तिा । विकट निम्नोन्नत विकरालं विशेषेण भीषण कालमुख मृत्युवकं तस्मिन्विवर्तमानमिव विकुर्वाणमिव । युगान्ते कल्पान्ते योगनिद्रया ध्यानात्मकस्खापन निरुद्धानि सर्वाणि द्वाराणि यस्य तथोक्तम् । यनारायणोदरं समस्तवस्लाबारभूतलक्ष्मीनायकोदरम् । तस्मिभिविष्टमिव भूतन् । जात्येकवचनम्। प्राणिन इत्यर्थः । विपद्यते विपदं प्राप्नोति । वायव्य वायुदेवत्यम् । वास्तु--' इति यत्प्रखयः । ईरित प्रेरितमिति यत्तत्स्थाने युक्तम् । यतः यस्मात् । विद्येति । विद्याकल्पेन तत्त्वमस्यादिवाक्यविहिततत्त्वज्ञानसशेन मरुता वायुना को भूयसा बहुतराणां मेघानां ब्रह्माणि निर्विशेषसन्माने कूटस्थे चैतन्ये विवर्तानामिव अधिष्ठानविषयसत्ताकव्यावहारिकपटपठादिबिकल्पानामिव प्रविलयः निवृत्तिः कृतः । इदं वाद्वैतप्रक्रियया व्याख्यातम् । परमार्थतस्तु विद्याकल्पेन दर्शनसमानाकाराविच्छिन्नस्मृतिसंतानात्मकसद्विद्यादिसहशेन महता ब्रह्मणि निखिलचेतनाचेतनशरीरके समस्तकल्याणगुणाकारे श्रीमति नारायणे विवर्तानामिय विशेषणीभूतचिदन्चिारकविलक्षणविकारभूतदेहेन्द्रियादीनामिव प्रविलयः कृतः जगदुपादानस्य ब्रह्मणः कार्यलनियतमामरूपप्रहाणलक्षणात्यन्तिकलय एव तदपृथक्सिद्भविशेषणभूतजीवस्य मोक्षः । स च 'तमेव विविला-' इत्यादि श्रुतिभिर्भक्तसाध्य इति । एवमुक्ति: ब्रह्मैव सन् ब्रह्माप्येति इत्युक्तेः ॥६॥ प्रतिषिद्धः नित्रर्तितः युद्धव्यापारो येन तथोक्ताः । अन्तरे मध्ये । प्रतिषेधवाक्येन तयोत्तत्प्रतिघाताय मध्ये रथस्थापनेन तन्निवर्तयतीति भावः ॥ शम्बूकवधात् शम्बूकबधं निर्वस । ल्यलोपे पञ्चमी । शान्तमिति । शान्तं कार्कश्यरहित महापुरुषस्य रामस्य संगदितं बचनं निशम्य तद्रौरवादामविषयकगरीयस्वबुद्ध्या समुपसं-