पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
उत्तररामचरिते

  परिणतकठोरपुष्करगर्भच्छदपीनमतृणसुकुमारः । .
  नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥ १३ ॥

 लव:--(स्वगतम् ।) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मय पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः । (प्रकाशम् ।) मृप्यन्तां त्विदानी लवस्य बालिशतां तातपादाः।

 राम:--किमपराद्धं वत्सेन ।

 चन्द्रकेतुः- अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन ।

 राम:- नन्वयमलंकारः क्षत्रियस्य ।

  न तेजस्तेजस्वी प्रसतमपरेषां विषहते
   स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
  मयूखैरश्रान्तं तपति यदि देवो दिनकरः
   किमानेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥

 चन्द्रकेतुः--अमर्षोऽप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः । प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि।

 रामः—(सविस्मवखेदं निर्वर्ण्य । स्वगतम् ।) अहो, वत्सस्स ईदृशः प्र


तातपादत्वब्याप्चरामस्वाद्यन्यतमधर्मविशिष्टत्वं ब्रूहि बोधय ॥ प्राचेतसान्तेवासी बाल्मीकिशिष्यः । 'परीति।परिणतस्त्र विकसितस्य कठोरस्व समग्रस्य पुष्करस्य पद्मय गर्मच्छदवदातपायनमितान्तरपत्रवत् पीनः मांसल ममृणः दन्तुरतारहितः सुकुमारः मृदुल: चन्दननिष्यन्दवत् चन्दनद्रववत् जडः शीतलः । अत्र एकमात्राधिक्यम् । 'चन्दननिचन्दज' इति संबुद्धयन्तपाठोऽपि ॥ १३॥ अमीषाम् । रामस्येत्यर्थः । एभ्यः अभिद्रोग्धुमेतद्विषये अपकर्तुम् । 'किया-'इति चतुर्थी आयुषपरिग्रहः कृतः । वालिशतां मूर्खता नृभ्यन्ता सहन्ताम् ॥ क्रिमपराद्धं कोऽनिष्टाचारः अश्वस्त मे याश्वस्य आनुवात्रिकाः अनुयात्रायां नियुक्तास्तेभ्य इति पनमी । आविष्करण प्रकाशनमुपश्रुत्साकर्ण वीरायित वीरबदाचरितम् ॥ अय वीरावित विधेयप्राधान्यात्पुरत्वम् । अलंकार: शोभाकरः । न तेज इति । प्रसृतमपरेषां तेषां तेजः पराभिभवनसामर्थं न विषहते न सद्दत इति यत् सः प्रकृतिनियतत्वादुपादानकारणव्यात्तत्वादकृतकः अनागन्तुकः । खो भावः धर्म. सत्कार्यवादे कारणगुणाः काथै उपलभ्चन्ते। मयूरः किरणैरश्रान्तमबिरतमानेयो नावा अग्न्युत्पादकसूर्यकान्लशिला निकृत इन परिभूत इव तेजांसि बमति रहिरति । दृष्टान्तालंकारः ॥ १४ ॥ अमर्षोऽपि न केवल तेजः कितु मन्युरपि शोभते