पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
सप्तमोऽङ्कः।

 सीता-(खगतम् ।) अवि जाणादि अजउत्तो सीदाए दुक्खं पडिमज्जिदुम् ।

 राम:-यथा भगवत्यादिशति ।

 लक्ष्मणः-कृतार्थोऽस्मि ।

 सीता---पंचुज्जीविदन्हि ।

 लक्ष्मण:---आर्ये, अयं लक्ष्मणः प्रणमति ।

 सीता-वैच्छ, ईरिसो तुमं चिरं जी ।

 अरुन्धती-भगवन्वाल्भीके, उपनयेदानी सीतागर्भसंभवौ रामभद्रस्य कुशलवौ । (इति निष्क्रान्ता ।)

 रामलक्ष्मणौ-दिष्टया तथैवैतत् ।

 सीता-हिं ते पुत्तआ।

(ततः प्रविशति वाल्मीकिः कुशलवी च।)

 वाल्मीकि:-वत्सौ, एष वां रघुपतिः पिता । एष लक्ष्मणः कनिष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः ।

 सीता-(सहर्षकरुणाद्भुतं विलोक्य ।) कॅह तादो । कहं जादा ।


 १. अपि जानात्यार्यपुत्रः सीताया दुःखं परिमार्दुम् ।

 २. प्रत्युज्जीवितासि ।

 ३. वत्स, ईदृशस्त्वं चिरं जीव ।

 ४. क तौ पुत्रको।

 ५, कथं तातः । कथं जाती।


जयेति । प्रिया वद्विषयकप्रीतियुक्ताम् । धर्मचारिणी धर्मानुष्टानशीलाम् ! अध्वरे याने। हिरण्मय्याः प्रतिकृतेः प्रतिमायाः प्रकृतिपावनी प्रकृति प्रतिमा सीतां यथाधर्म नियोजयाज्ञापन । पुण्यामित्यनेन 'यस्य भाची विदूरस्था पतिता दूषिताथवा । अनिच्छु: प्रतिकूला वा* इत्याधुदासः ॥ २० ॥ यथा भगवत्यादिशति । तथास्विति शेषः । कृतार्थोऽस्मि सीतारामयोः समागमरूपप्रयोजनसिद्धिमानस्मि । त्यागस्य खद्वारकत्वादेवमुक्तम् ॥ प्रत्युज्जीवितारिस 'यस्त्वया सह स खर्गः' इत्युक्तरामसमागमात्मकपुनरुज्जीवनवती कृतास्मि । ईदृशः सन् चिरं जीव मम पत्युश्च समागमं परमं श्रेयो मन्वानः सन् चिरं जीव ॥ रामभद्रस्य उपनय रामभद्रसमीपं प्रापयदिष्टया तथैचैतत् । एतत्कुशलवोत्पत्त्यादिकं तथैव पूर्वमस्मचिन्तितप्रकारेणैव । आसीदिति शेषः॥ क तौ पुत्रौ । द वाल्मीकिप्रवेशसूचकम् ॥ मातामहः मातुः पिता । 'मातृपितृभ्यां