लक्ष्मण:-एष पञ्चवट्यां शूर्पणखाविवादः ।
सीता हा अजउत्त, एत्तिकं दे दंसणम् ।
रामः--अयि वियोगत्रस्ते, चित्रमेतत् ।
सीता-जहा तहा होदु । दुजणो असुहं उप्पादेइ ।
रामः- हन्त, वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति ।
लक्ष्मण:-
अथेदं रक्षोभिः कनकहरिणच्छाविधिना
तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि ।
जनस्थाने शून्ये विकलकरणैरार्यचरितै-
रपि पावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २८॥
१. हा आर्यपुत्र, एतावत्ते दर्शनम् ।
२. यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति ।
मान्यातिशयोक्तिकथनादावाक्त्व सीताथा गम्यत इत्युक्तावतिविशेषात्फुल्लजृम्भिताख्यबन्धविशेषौ सूच्यते । तदुक्तं काञ्चीनादेन–'उत्फुल जम्भितयोः स्त्रिया आईवचो न क्रोधः' इति । तहक्षणं तु अविरलितकपोलत्वमुपविष्टयोरेव सुलभमिति । अक्रमेणेति पुरुषायित सूच्यते । तच्च भ्रामरादिभेदाविविधमप्यत्र बोध्यम् । अत्र पुरुषाथितस्य 'स्वेच्छया भ्रमणीवल्लभ-' इत्युक्त्तत्वात्स्वेच्छैव निमित्तमिति बोध्यम् । अशिथिलेत्यादिना पार्श्वशायिनोः सुरतमिति लभ्यते । अन्यथा उभाभ्यामेव बाहुभ्यां किं न स्यात् । एवं कतिपयैरेव बन्धविशेषै रात्रेरेवावसितत्वाद्बहूनां क्रीडाविशेषाणां तद्धेतुभूतासक्तियोगस्य वाविरतत्वानात्रिरेव व्यरंसीदित्युक्तम् । इदमेवाभिसंधाय 'बिन्दुमात्र विशिष्यते' इति कालिदासेनोक्तम् । वस्तुतस्तु संलापादिबाह्यसंभोग एवं स्वारस्य मिति सुधियो विभावयन्तु ॥२७॥ एष इति । शूर्पणखाविवादः। रामेण लक्ष्मण प्रति तेन रामं प्रति प्रेषणादिरिति भावः । 'नखमुखालंज्ञायाम् इति डीपो निषेधः । पूर्वपदात् इति मत्वम् ॥ वियोगत्रस्तेति । वियोगात्रस्त इति विग्रहः । पञ्चमी' इति योगविभागात्समासः ॥ असुख दुःखम् ॥ अथेति । अथ विकलकरणैरार्चचरितैः । यथा प्रावापि रोदिति, वनस्यापि हृदयं दलति, तथा पापै रक्षोभिर्जनस्थाने शून्ये सति कनकहरिणच्छाविधिना वृत्तमिद क्षालितमपि व्यथयतीत्यन्वयः। अथ शूर्पणखाचित्रदर्शनानन्तरम् । यथा येन प्रकारेण विकलानि खखव्यापारशून्यानि करणानि चक्षुरादीनि येधु तथोक्तैरायंचरितैमूाप्रभृतिव्यापारैवापि शिलापि रोदिति रोदनं करोति । 'रुदादिभ्यः' इती । वज्रस्यापि वज्रादन्येनाभेद्यस्य वज्रस्यापि हृदयं मध्यप्रदेशो दलति विधा भिन्नं भवति, तथा तेन प्रकारेण वृत्तमिति संबन्धः । जनस्थाने पापै रक्षोभिः शून्ये सति । खरदूषणादिवधानन्तरमित्यर्थः । कनकहरिणच्छन्नविधिना खणेमारीचमाथिकमृगव्याज-