सीता-वच्छ, एसो सो कुसुमिदकदम्बताण्डविअबंहिणो किंणामहेओ गिरी। जत्थ अणुभावसोहगमेत्तपरिसेससुन्दरसिरी मुच्छन्दो तुए परुष्णेण ओलम्बिओ तरअले अजउत्तो आलिहिदो।
लक्ष्मण:-
सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मि-
नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः ।
आर्येणास्मिन्
राम:-
विरम विरमातःपरं न क्षमोऽस्मि
प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ॥ ३३ ॥
लक्ष्मण:--अतःपरमार्थस्य तत्रभवतां राक्षसानां चापरिसंख्यान्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि विश्राम्यतामिति ।
सीता--अजउत्त, एदिणा चित्तदसणेण पच्चुप्पण्णदोहलाए मए विण्णावणिज अस्थि ।
राम:- नन्वाज्ञापय ।
सीता-जाणे पुणोवि पसष्णगम्भीरासु वणराईसु विहरिज पवित्तणिम्मलसिसिरसलिलं भअवदि भाईरहिं ओगाहिस्सं ति ।
१. वत्स, एष स कुसुमितकदम्बताण्डवितवर्हिणः किंनामधेयो गिरिः । यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरीद्र्छस्त्वया प्ररुदितेनावलम्बितस्तस्तल आर्यपुत्र आलिखितः।
२. आर्यपुत्र, एतेन चिनदर्शनेन प्रत्युत्पन्नदोहलाया मम विज्ञापनीयमस्ति ।
३. जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहत्य पवित्रनिर्मलशिशिरसलिलां भगवती भागीरथीं अवगाहिष्य इति ।
अवलम्बित्तः पतन् यथा धारित इति ॥ शैल(सोऽयं) इति । ककुभा वृक्षविशेषास्तेषां पुष्पैः सुरभिः । 'पुष्पमूलेषु बहुलम् इति लुप् । विप्रयोग: वियोगः । प्रत्यावृत्तः पुनरागतः ॥३३॥ अपरिसंख्यानि परिसंख्या निषेधः ।अवधिरिति यावत् । तदहितानि संख्याशल्यानीति वा ॥ प्रत्युत्पन्नदोहलाचाः। उत्पन्नाभिलाषाया इत्यर्थः । उत्पन्नमनो