पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
प्रथमोऽङ्कः।

 सीता-(उत्स्वप्नायते ।) अज्जउत्त, कहिंसि ।

 रामः--सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः खप्नोद्योगं करोति । (सस्नेहमङ्गमस्याः परामृशन् ।)

  अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य-
   द्विश्रामो हृदयस्य अन्न जरसा यस्मिन्नहार्यो रसः ।
  कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितं
   भद्रं तस्य समानुषस्य कथमप्येकं हि सत्प्रार्थ्यते ॥ ३९ ॥


 १. आर्यपुत्र, कुनासि ।


रतलामा ॥ अपसपो गूढचरः।प्रहितः प्रयुक्तः । न तु वास्तव्य इत्यर्थः ॥ रणरणकदायिनी विक्षोभकारिणी । विरहभावना वियोगध्यानम् । चित्रदर्शनादिति स्मरणहेतुरुक्तः । खने निद्रायामुद्योग वचनादिप्रयत्नम् । 'उद्वेगम्' इति पाठे भयसनममित्यर्थः । अङ्गमस्याः परामृशन् । एतेलोपरितनदलोकस्यापत्यविषयत्वकल्पना परास्ता, तथा सति उदरमस्याः परामशन्निति वक्तव्यतापत्तेः । न च 'मयैवादी ज्ञात: करतलपरामर्शकलया द्विधा गर्भप्रन्थि,' इति वक्ष्यमाणानुवादस्य पुरोवादसापेक्षतया अत्रत्याशब्दस्य तद्विशालोदरपरत्वं कवेः संमतमिति वाच्यम् । तत्र 'सहजलज्जाजडदृशः' इति जागरप्रतीतेः । अत्र च सुषुप्तिप्रतीतेस्तदयोगादिति ध्येयम् । अद्वैतमिति । यसर्वाखवस्थासु सुखदुःखयोरद्वैतमनुगतम् । जाप्रत्ननसुषुप्त्वादिसर्घावस्थासु ये सुखदुःखे तयोः संबन्धि यदद्वैतमभिन्नत्वं तदनुगतम् । तद्विशिष्टमित्यर्थः । सर्वाखवस्थास्वभिन्नसुखदुःखापादकमित्यर्थः । द्वचो वो द्वैतम् । इदमेवाद्वैत चक्रवाक्रमिथुनवर्णनव्यपदेशेन नवेन कविना व्याख्यातम्-'भुक्तं तद्विमृणालयोमिथुनयोः पीतं द्विराजीवयोः सुप्त तशिफलाशयोरविरल संश्लिष्टयोर्यद्यपि । पर्यायात्समयद्वयेन विस्तं भिन्नप्रयत्नेन वा मूर्तिद्वैतवशान्मतिमिथुनमित्यद्वैतमेवानयोः ॥ इति । पर्यायादिति पर्यायशब्दमन्तर्भाव्य न विरुद्धमिति ल्यब्लो पञ्चमी व्याख्येया नातः समयद्वय इत्यनेन पौनरुक्त्यम् । यत्र दाम्पत्ये हृदयस्य गुरुकुलशिश्मनस इत्यर्थ. । विश्रामः थमापनयनकसुखविशेषानुभवः । अत्र विश्राम इत्यपाणिनीयम् , नोदात्तेति वृद्धिप्रतिषेधात्' इति वैयाकरणाः । श्रीहर्षस्तु 'विश्वामी विश्रमश्च' इति द्विरूपकोश उक्तवान् । यस्मिन्दाम्पत्ये रसः स्पृहारूपो जरसा जरया अहार्यो हर्तुमशक्यः । यद्वा यस्मिन्सति रस आहादो जरसाप्वहायः। आवरणालयात् । पदद्वयमिदम् । वरण विवाहः, अत्ययः शरीरसंपातः, बरणं चात्ययश्चेति समाहारद्वन्द्वः । आवरणात्सवात् । बारणात्ययमभिव्याप्येत्यर्थः । वरणमारभ्य शरीरपातपर्यन्त वर्तमानेन कालेन परिणते उपचयं प्राप्ले प्रेमसारे उत्कृष्टप्रेमिण स्थितं स्थितिमत् । 'मालयाः प्रथमावलोकदिवसादारभ्य विस्तारिभिभूयः स्नेहविचेष्टितैमूंगदृशो नीतस्थ कोटि पराम्' । 'परां कोटि खेहपरिचयविकासात् अधिगते' इत्यादि समानार्थकम् । 'कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितम्'